Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
३८.
प्रमेयरत्नमाला।
नचासिद्ध्वदिष्टं प्रतिवादिनः ॥ २३ ॥ अयमर्थः-न हि सर्व सर्वापेक्षया विशेषणमपि तु किञ्चित्कमप्युद्दिश्य भवतीति । असिद्धवदिति व्यतिरेकमुखेनोदाहरणम् । यथा असिद्धं प्रति. वाद्यपेक्षया न तथेष्टमित्यर्थः । कुत एतदित्याह
प्रत्यायनाय हीच्छा वक्तुरेव ॥ २४ ॥ इच्छायाः खल्लु विषयीकृतमिष्टमुच्यते । प्रत्यायनाय हीच्छा वक्तुरेवेति । तच साध्यं धर्मः किं वा तद्विशिष्टो धर्मीति प्रश्ने तद्भेदं दर्शयन्नाह___ साध्यं धर्मः कचित्तद्विशिष्टो वा धर्मीति ॥ २५ ॥
सोपस्काराणि वाक्यानि भवन्ति । ततोऽयमर्थों लभ्यते-व्याप्तिकालापेक्षया तु साध्यं धर्मः । कचित्प्रयोगकालापेक्षया तु तद्विशिष्टो धर्मी साध्यः । अस्यैव धर्मिणो नामान्तरमाह
पक्ष इति यावत् ॥ २६ ॥ ननु धर्मर्भिसमुदायः पक्ष इति पक्षस्वरूपस्य पुरातनैर्निरूपितत्वाद्धर्मिणस्तद्वचने कथं न राद्धान्तविरोध इति । नैवं-साध्यधर्माधारतया विशेषितस्य धर्मिणः पक्षत्ववचनेऽपि दोषानवकाशात् । रचनावैचित्र्यमात्रेण तात्पर्यस्यानिराकृतत्वात्सिद्धान्ताविरोधात् । अत्राह सौगतः भवतु नाम धर्मी पक्षंव्यपदेशभाक् तथापि सविकल्पबुद्धौ परिवर्तमान एव न वास्तवः ! सर्व एवानुमानानुमेयव्यवहारो बुद्धयारूढेन धर्मधर्मिन्यायेन बहिःसदसत्वमपेक्षत इत्य. भिधानादिति तन्निरासार्थमाह--
प्रसिद्धो धर्मीति ।। २७ ॥ अयमर्थः-नेयं विकल्पबुद्धिर्बहिरन्तर्वाऽनासादितालम्बनभावा धर्मिणं व्यवस्थापयति । तदवास्तवत्वेन तदाधारसाध्यसाधनयोरपि वास्तवत्वानुपपत्तेस्तद्बद्धेः पारंपर्येणापि वस्तुव्यवस्थानिबन्धनत्त्वायोगात् । ततो विकल्पेना

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92