Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 38
________________ ३६ प्रमेयरत्नमाला। नोऽपि प्रमाणानीष्टानिष्टसाधनदूषणाऽन्यथाऽनुपपत्तेः । नचात्र पक्षधर्मत्वं सपक्षान्वयो वाऽस्ति । केवलमविनाभावमात्रेण गमकत्वप्रतीतेः। यदप्यपरमुक्तं परैः पक्षधर्मताभावेऽपि काकस्य कार्णोद्धवलः प्रासाद इत्यस्यापि गमकत्वापत्तिरिति तदप्यनेन निरस्तम् । अन्यथानुपपत्तिबलेनैव पक्षधर्मस्यापि साधुत्त्वाभ्युपगमात् । न चेह साऽस्ति । ततोऽविनाभाव एव हेतोः प्रधान लक्षणमभ्युपगन्तव्यम् । तस्मिन्सत्यसति त्रिलक्षणत्त्वेऽपिहेतोर्गमकत्त्वदर्शनादिति न रूप्यं हेतुलक्षणमव्यापकत्वात् । सर्वेषां क्षणिकत्त्वे साध्ये सत्त्वादेः साधनस्य सपक्षे सतोऽपि स्वयं सौगतैर्गमकत्वाभ्युपगमात् ।एतेन पञ्चलक्षणत्त्वमपि योगपरिकल्पितं न हेतोरुपपत्तिमियीत्यभिहितं बोद्धव्यम् । पक्षधमत्वे सत्यन्वयव्यतिरेकावबाधितविषयत्त्वमसत्प्रतिपक्षत्वं चेति पञ्चलक्षणानि, तेषामप्यविनाभावप्रपञ्चतैवाबाधितविषयस्याविनाभावायोगात् । सत्प्रतिपक्षस्येकति साध्यामासविषयत्त्वेनासम्यग्घेतुत्वाच्च । यथोक्तपक्षविषयत्वाभावात्तदोषेणैव दुग्छत्यत् । अतः स्थितं साध्याविनाभावित्वेन निश्चितो हेतुरिति । इदानीमविनाभावभेदं दर्शयन्नाह-- सहक्रमभावनियमोऽविनाभावः ॥ १६ ॥ तत्र सहभावनियमस्य विषयं दर्शयन्नाह-- सहचारिणोव्याप्यव्यापकयोश्च सहभावः ॥ १७॥ सहचारिणो रूपरसयोाप्यव्यापकयोश्च वृक्षत्वशिंशपात्वयोरिति । सप्तम्या विषयो निर्दिष्टः । क्रममावनियमस्य विषयं दर्शयन्नाह पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रमभावः ॥१८॥ पूर्वोत्तरचारिणोः कृत्तिकोदयशकटोदययोः कार्यकारणयोश्च धूमधूमध्वजयोः गवः । नन्वेवम्भूतस्याविनामावस्य न प्रत्यक्षेण ग्रहणं, तस्य सन्निहित। गत् । नाप्यनुमानेन, प्रकृतापरानुमानकल्पनायामितरेतराश्रयत्वान

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92