Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
३४
प्रमेयरत्नमाला। दर्शनस्मरणकारणकं सङ्कलनं प्रत्यभिज्ञानं । तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादि ॥ ५ ॥ ___ अत्र दर्शनस्मरणकारणकत्वात् सादृश्यादिविषयस्यापि प्रत्यभिज्ञानत्त्वमुक्तम्। येषां तु सादृश्यविषयमुपमानाख्यं प्रमाणान्तरं तेषां वैलक्षण्यादिविषयं प्रमाणान्तरमनुषज्येत । तथा चोक्तम्-" उपमानं प्रसिद्धार्थसाधर्म्यात्साध्यसाधनम् । तद्वैधात्प्रमाणं किं स्यात्संज्ञिप्रतिपादनम् ॥ १ ॥ इदमल्पं महद्दूरमासन्नं प्रांशु नैति वा । व्यपेक्षातः समक्षेऽर्थे विकल्यः साधनान्तर मिति ॥ २ ॥" ऐषां क्रमेणोदाहरणं दर्शयन्नाह___ यथा स एवायं देवदत्तः ॥६॥ गोसदृशो गवयः ॥७॥ गोविलक्षणो महिषः ॥ ८॥ इदमस्मादरम् ॥ ९॥ वृक्षोऽयमित्यादि ॥१०॥ ___ आदिशब्देन—“ पयोम्बुभेदी हंसः स्यात् षट्पादर्भमरः स्मृतः । सप्तपर्णैस्तु तत्त्वज्ञैर्विज्ञेयो विषमच्छदः ॥ १ ॥ पञ्चवर्ण भवेद्रत्नं मेचकाख्यं पृथुस्तनी । युवतिश्चैकश्रृंङ्गोऽपि गण्डकः परिकीर्तितः ॥ २ ॥ शरभोऽप्यष्टभिः पादैः सिंहश्चारुसटान्वितः ।" इत्येवमादिशब्दश्रवणात्तथाविधानेव सरालदीनवलोक्य तथा सत्यापयति यदा तदा तत्सङ्कलनमपि प्रत्यभिज्ञानमुक्तं, दर्शनस्मरणकारणत्वाविशेषात् । परेषां तु तत्प्रमाणन्तरमेवोपपद्यते उपमानाद! तस्यान्तर्भावाभावात् । अथोहोऽवसरप्राप्त इत्याह
उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः ॥ ११ ॥ इदमस्मिन्सत्येव भवत्यसति न भवत्यवति च ।। १२ ।।
उपलम्मः प्रमाणमात्रमंत्र गृह्यते । यदि प्रत्यक्षमेवोपलम्भशब्देनोच्यते. तदा साधनेष्वनुमेयेषु व्याप्तिज्ञानं न स्यात् । अथ व्याप्तिः सर्वोपसंहारेण प्रतीयते, सा कथमतीन्द्रियस्य साधनस्यातीन्द्रियेण साध्येम भवेदिति । मैवं

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92