Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
तृतीयसमुद्देशः। प्रत्यक्षविषयेष्विवानुमानविषयेष्वपि व्याप्तेरविरोधात् । तज्ज्ञानस्याप्रत्यक्षत्त्वाभ्युपगमात् । उदाहरणमाह
यथानावेव धुमस्तदभाव न भवत्येवेति च ॥ १३॥ इदानीमनुमान क्रमायातमिति तल्लक्षणमाह
साधनात्साध्यविज्ञानमनुमानम् ॥ १४ ॥ साधनस्य लक्षणमाह
साध्याविनामावित्वेन निश्चितो हेतुः ॥ १५ ॥ ननु त्रैरूप्यमेव हेतोर्लक्षणं, तस्मिन्सत्येव हेतोरसिद्धादिदोष परिहारोपपत्तेः । तथाहि - पक्षवर्मत्वमसिद्धत्त्वव्यवच्छेदार्थमभिधीयते । सपक्षे सत्त्वं तु विरुद्धत्त्वापनोदार्थम् । विपक्षे चासत्त्वमेवानकान्तिकव्युदासार्थमिति । तदुक्तम् “ हेतोस्त्रिष्वषिरूपेषु निर्णयस्तेन वर्णितः । असिद्धविपरीतार्थव्याभि-- चारिविपक्षतः ” इति ॥ १ ॥ तदयुक्तं--अविनामावनियमनिश्चयादेव दोषत्रयपरिहारोपपत्तेः। अविनाभावो ह्यन्यथानुपपन्नत्त्वं, तच्चासिद्धस्य न सम्भवत्येव । अन्यथानुपपन्नत्वमसिद्धस्य सिद्धवतीत्यभिधानात् । नापि विरुद्धस्य तल्लक्षणत्वोपपत्तिविपरीतनिश्चिताविनाभाविनि यथोक्तसाध्याविनामावनियमलक्षणस्यानुपपत्तेविरोधात् व्यभिचारिण्यपि न प्रकृतलक्षणावकाशः । तत एव ततोऽन्यथाऽनुपपत्तिरेव श्रेयसी । न त्रिरूपता । तस्यां सायामपि यथोक्तलक्षणाभावे हेतोर्गमकत्वादर्शनात् । तथाहि-स श्यामस्तस्त्रत्वादितरतत्तुत्रवदित्यत्र त्रैरूप्यसम्भवेऽप्यगमकत्वमुपलक्ष्यते । अथ विपक्षायावृत्तिनियमवती तत्र न दृश्यते । ततो न गमकत्वमिति । तदपि मुग्धविलासित. मेव । तस्या एवाविनाभावरूपत्वात् । इतररूपसद्भावेऽपि तदभावे हेतोः स्वसाध्यसिद्धिम्प्रति गमकत्वानिष्टौ सैव प्रधानं लक्षणमक्षणमुपलक्षणीयमिति । तत्सद्भावें चेतररूपद्वयंनिरपेक्षतया गमकत्वोपपत्तेश्च । यथा सन्त्यद्वैतवादित
.

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92