Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
२१
द्वितीय समुद्देशः। पस्यातजन्यस्याऽतदाकारधारिणोऽपि तत्प्रकाशकत्वं, तथा ज्ञानस्यापीत्यर्थः । ननु यद्यर्थादजातस्यार्थरूपाननुकारिणो ज्ञानस्यार्थसाक्षात्कारित्वं तदा नियतदिग्दशकालवर्तिपदार्थप्रकाशप्रतिनियमे हेतोरभावात्सर्व विज्ञानमप्रतिनियतविषयं स्यादिति शङ्कायामाह
स्वावरणक्षयोपशमलक्षणयोग्यतया हि
प्रतिनियतमर्थ व्यवस्थापयति ॥ ९ ॥ स्वानि च तान्यावरणानि च स्वावरणानि तेषां क्षय उदयाभावः । तेषामेव सदवस्था उपशमः तावेव लक्षणं यस्या योग्यतायास्तया हेतुभूतया प्रतिनियतमर्थ व्यवस्थापयति प्रत्यक्षमिति शेषः । हि यस्मादर्थे । यस्मादेवं ततो नोक्तदोष इत्यर्थः । इदमत्र तात्पर्यम् , कल्पयित्त्वाऽपि ताद्रूप्यं तदुत्पत्तिं तदध्यवसायं च योग्यताऽवश्याऽभ्युपगन्तव्या । ताद्रूप्यस्य समानार्थस्तदुत्पत्तेरिन्द्रियादिभिस्तव्यस्यापि समानार्थसमनन्तरप्रत्ययैस्तत्रितयस्यापि शुक्ले शंखे पीताकारज्ञानेन व्यभिचाराद्योग्यताश्रयणमेव श्रेय इति । एतेन यदुक्तं परेण-" अर्थेनघटयत्येनां नहि मुक्त्वार्थरूपताम् । तस्मात्प्रमेयाधिगतौ प्रमाणं मेयरूपतेति" तन्निरस्तम् । समानार्थाकारनानाज्ञानेषु मेयरूपतायाः सद्भावात् । न च परेषां सारूप्यं नामास्ति वस्तुभूतामिति योग्यतयैवार्थप्रतिनियम इति स्थितम् । इदानीं कारणत्वात्परिच्छेद्योऽर्थ इति मतं निराकरोति
कारणस्य च परिच्छेद्यत्त्वे करणादिना
व्यभिचार इति ॥ १० ॥ करणादिकारणं परिच्छेद्यमिति तेन व्यभिचारः । न ब्रूमः कारणत्त्वात्परिच्छेद्यत्वमपितु परिच्छेद्यत्त्वात्कारणत्वमिति चेन्न । तथापि केशोंडुकादिना व्यभिचारात् । इदानीमतीन्द्रियप्रत्यक्षं व्याचष्टे

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92