Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 30
________________ २८ प्रमेयरत्नमाला। चिन्तितः । अथोमयसम्बन्धो कार्यत्वमिति मतिः सापि न युक्ता । तत्सम्बन्धस्यापि कादाचित्कत्त्वे समवायस्यानित्यत्वप्रसङ्गात् घटादिवत् अकादाचिस्कत्त्वे सर्वदोपलम्भप्रसङ्गः । अथ वस्तूत्पादककारणानां सन्निधानाभावान्न सर्वदोपलम्भप्रसंगः । ननु वस्तूत्पत्त्यर्थं कारणानाम् व्यापारः । उत्पादश्च स्वकारणसत्तासमवायः स च सर्वदाप्यस्ति, इति तदर्थं कारणोपादानमनर्थकमेव स्यात् । अभिव्यक्त्यर्थं तदुपादानमित्यपि वार्तं वस्तूत्पादापेक्षया अभिव्यक्तरघटनात् । वस्त्वपेक्षपाऽभिव्यक्ती कारणसम्पातात्प्रागपि कार्यवस्तुसद्भावप्रसङ्गात् । तल्लक्षणत्वाद्वस्तुसत्त्वस्य प्राक् सत एव हि केनचित् तिरोहितस्याभिव्यञ्जकेनाभिव्यक्तिस्तमस्तिरोहितस्य घटस्येव प्रदीपादिनेति । तन्नाभिव्यक्त्यर्थं कारणोपादानं युक्तं, तन्न स्वकारणसत्तासम्बन्धः कार्यत्वम् ॥ नाप्यभूत्वाभावित्वम् । तस्यापि विचारासहत्वात् । अभूत्वाभावित्वं हि भिन्नाकालक्रियाद्वयाधिकरणभूते कर्तरि सिद्ध सिद्रिमध्यास्ते । क्त्वान्तपदविशेषितवाक्यार्थत्वाद्भुक्त्वा व्रजतीत्यादिवाक्यार्थवत् । न चात्र भवनाभवनयोराधारभूतस्य कर्तुरनुभवोऽस्ति । अभवनाधारस्याविद्यमानत्वेन भवनाधारस्य च विद्यमानतया भावाभावयोरेकाश्रयविरोधात् । आवरोधे च तयोः पर्यायमात्रेणैव भेदो न वास्तव इति । अस्तु वा यथाकथंचिदभूत्वाभावित्वं, तथापि तन्वादौ सर्वत्रानभ्युपगमाद्भागासिद्धम् ।न हि महीमहीधराकूपारारामादयः प्रागभूत्वाभवन्तोऽभ्युपगम्यन्ते परैः । तेषां तैः सर्वदावस्थानाभ्युपगमात् । अथ सावयवत्त्वेन तेषामपि सादित्वं प्रसाध्यते, तदप्यशिक्षितलक्षितम् । अवयवेषु वृत्तरेवयवैरारभ्यत्वेन च सावयवत्वानुपपत्तेः । प्रथमपक्षे सावयव. सामान्येनानेकान्तात् । द्वितीयपक्षे साध्याविशिष्टत्वात् । अथ सन्निवेश एव सावयवत्वं तच्च घटादिवत् पृथिव्यादावुपलभ्यते इत्यभूत्वाभावित्वमभिधीयते तदप्यपेशलम् । सन्निवेशस्यापि विचारासहत्वात् । स ह्यवयवसम्बन्धो भवे

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92