Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
३०
प्रमेयरत्नमाला।
मन्तरेणापि विद्युदादीनां प्रादुर्भावसम्भवात् । सुप्ताद्यवस्थायामबुद्धिपूर्वकस्यापि कार्यस्य दर्शनात् । तदवश्यं तत्रापि भर्गाख्यं कारणमित्यतिमुग्धविलसितं, तद्वयापारस्याप्सम्भवादशरीरत्वात् । ज्ञानमात्रेण कार्यकारित्वाघटनादिच्छाप्रयत्नयोः शरीराभावेऽसम्भवात्तदसम्भवश्च पुरातनैर्विस्तरेणाभिहित आप्तपरीक्षादौ । अतः पुनरत्र नोच्यते । यच्च महेश्वरस्य क्लेशादिभिरपरामृष्टत्वं निरतिशयत्वमैश्वर्याद्यपेतत्वं तत्सर्वमपि गगनाब्जसौरभव्यावर्णनमिव निर्विषयत्वादुपेक्षामर्हति । ततो न महेश्वरस्याशेषज्ञत्वम् । नापि ब्रह्मणः । तस्यापि सद्भावावेदकप्रमाणाभावात् । न तावत्प्रत्यक्षं तदावेदकमविप्रतिपत्तिप्रसङ्गात्। न चानुमानमविनामाविलिङ्गाभावात् । ननु प्रत्यक्षं तद्ग्राहकमस्त्येव, आक्षिविस्फालनानन्तरं निर्विकल्पकस्य सन्मात्रविधिविषयतयोत्पत्तेः । सत्तायाश्च परमब्रह्मरूपत्वात् । तथाचोक्तम्-अस्ति ह्यालोचनाज्ञानं प्रथम निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ १ ॥ न च विधिवत् परस्परव्यावत्तिरप्यध्यक्षतः प्रतीयत इति द्वैतसिद्धिः । तस्य निषेधाविषयत्त्वात् । तथा चोक्तम् । आहुर्विधातृप्रत्यक्षं न निषेधृविपश्चितः । नैकत्वे आगमस्तेन प्रत्यक्षेण प्रवाध्यते ॥ १ ॥ अनुमानादपि तत्सद्भावो विभाव्यत एव । तथाहिग्रामारामादयः पदार्थाः प्रतिभासान्तःप्रविष्टाः प्रतिभासमानत्वात् । यत्प्रतिभासते तत्प्रतिभासान्तःप्रविष्टम् । यथा प्रतिभासस्वरूपं प्रतिभासन्ते च विवादापन्ना इति । तदागमानामपि पुरुष एवेदं यद्भूतं यच्च भाव्यमिति बहुलमुपलम्भात् । सर्व वै खल्विदं ब्रह्म नेह नानास्ति किञ्चन । आरामं तस्य पश्यन्ति न तं पश्यति कश्चन । इति श्रुतेश्च ॥ १ ॥ ननु परमब्रह्मण एव परमार्थसत्त्वे कथं घटादि भेदोऽवभासत इति न चोद्यम् । सर्वस्यापि तद्विवर्ततयावभासनात् । न चाशेषभेदस्य तद्विवर्तत्वमासिद्धं प्रमाणप्रसिद्धत्वात् । तथाहि-विवादाध्यासितं विश्वमेककारणपूर्वकमेकरूपान्वितत्वात् । घटघटी

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92