Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 31
________________ द्वितीयसमुद्देशः। द्रचनाविशेषो वा । यद्यवययसम्बन्धस्तदा गगनादिनानेकान्तः सकलमूर्तिमद्द्रव्यसंयोगनिबन्धनप्रदेशनानात्वस्यसद्भावात् । अथोपचरिता एव तत्र प्रदेशा इति चेत् तर्हि सकलमूर्तिमद्रव्यसम्बन्धस्याप्युपचरितत्वात्सर्वगतत्वमप्युपचरितं स्यात् । श्रोत्रस्यार्थक्रियाकारित्वं च न स्यात् । उपचरितप्रदेशरूपत्वात् । धर्मादिना संस्कारात्ततः सेत्ययुक्तम् । उपचरितस्यासद्रूपस्य तेनोपकारायोगात्। खरविषाणस्येव ततो न किञ्चिदेतत् । अथ रचनाविशेषस्तदा परम्प्रतिभागासिद्धत्वं तदवस्थमेवेति नाभूत्वाभावित्वं विचारं सहते । नाप्यक्रियादर्शिनोऽपि कृतबुद्धयुत्पादकत्वम् । तद्धि कृतसमयस्याकृतसमयस्य वा भवेत् । कृतसमयस्य चेत् गगनादेरपि बुद्धिमद्धेतुकत्वं स्यात् । तत्रापि खननोत्संचनात् कृतमितिगृहीतसङ्केतस्य कृतबुद्धिसम्भवात् । सा मिथ्यति चेत् भवदीयापि किं न स्यात् । बाधासद्भावस्य प्रतिप्रमाणविरोधस्य चान्यत्रापि समानत्वात् । प्रत्यक्षेणोभयत्रापि कर्तुरग्रहणात् । क्षित्यादिकं बुद्धिमद्धेतुकं न भवति अस्मदाद्यनवग्राह्यपरिमाणाधारत्त्वात् गगनादिवदिति प्रमाणस्य साधारणत्वात्। तन्न कृतसमयस्य कृतबुद्ध्युत्पादकत्वम् । नाप्यकृतसमयस्याऽसिद्धत्वादविप्रतिपत्तिप्रसङ्गाच्च । कारणव्यापारानुविधायित्वं च कारणमात्रापेक्षया यदीष्यते तदा विरुद्ध साधनम् । कारणविशेषापेक्षया चेदितरेतराश्रयत्वम् । सिद्धे हि कारणविशेषे बुद्धिमति तदपेक्षया कारणव्यापारानुविधायित्वं कार्यत्वम् । ततस्तद्विशेषसिद्धिरिति सन्निवेशविशिष्टत्वमचेतनोपादानत्वं चोक्तदोषदुष्टत्वान्न पृथक् चिन्त्यते । स्वरूपभागासिद्धत्वादेस्तत्रापि सुलभत्वात् । विरुद्धाश्चामी हेतवो दृष्टन्तानुग्रहेण सशरीरासर्वज्ञपूर्वकत्वसाधनात् । न धूमात्पावकानुमानेऽप्ययं दोषः । तत्र तार्णपार्णादिविशेषाधाराग्निमात्रव्याप्तधूमस्य दर्शनात् । नैवमत्र सर्वज्ञासर्वज्ञकर्तविशेषाधिकरणतत्सामान्येन कार्यत्वस्य व्याप्तिः सर्वज्ञस्य कर्तुरतोऽनुमानात्प्रागसिद्धत्वात् । व्यभिचारिणश्चामी हेतवो बुद्धिमत्कारण

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92