Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 29
________________ द्वितीयसमुद्देशः । २७ तदेतत्सर्वमनुमानमुद्रादविणदरिद्रवचनमेव कार्यत्वादेरसम्यग्घेतुत्त्वेन तजनित ज्ञानस्य मिथ्यारूपत्वात् । तथाहि-कार्यत्वं स्वकारणसत्तासमवायः स्यादभूत्वा भावित्वमक्रियादर्शिनोऽपि कृतबुद्धयुत्पादकत्वं कारणव्यापारानुविधायित्वं वा स्याद्गत्यन्तराभावात् । अथाद्यः पक्षस्तदा योगिनामशेषकर्मक्षये पक्षान्तःपातिनि हेतौ कार्यत्वलक्षणस्याप्रवृत्ते गासिद्धत्वम् । न च तत्र सत्तासमवायः स्वकारणसमवायो वा समस्ति, तत्प्रक्षयस्य प्रध्वंसरूपत्वेन सत्तासमवाययोरभावात् सत्ताया द्रव्यगुणक्रियाधारत्वाभ्यनुज्ञानात् समवायस्य च परैर्द्रव्यादिपञ्चपदार्थवृत्तित्वाभ्युपगमात् । अथाभावपरित्यागेन भावस्यैव विवादाध्यासितस्य पक्षीकरणान्नायं दोषः प्रवेशमागिति चेत् तर्हिमुक्त्यर्थिनां तदर्थः मीश्वराराधनमनर्थकमेव स्यात् । तत्र तस्याकिञ्चित्करत्वात् सत्तासमवायस्य विचारमधिरोहतः शतधा विशीर्यमाणत्वात् स्वरूपासिद्धं च कार्यत्वम् । स हि समुत्पन्नानां भवेदुत्पद्यमानानां वा ? यद्युत्पन्नानां, सतामसतां ? न तावदसतां खरविषाणादेरपि तत्प्रसङ्गात् । सतां चेत् सत्तासमवायात्स्वतो वा ? न तावत्सत्तासमवायादनवस्थाप्रसङ्गात् प्रागुक्तविकल्पद्वयाऽनतिवृत्तेः । स्वतःसतां तु सत्तासमवायानर्थक्यम् । अथोत्पद्यमानानां सत्तासम्बन्धो निष्ठासम्बन्धयोरेककालत्याभ्युपगमादिति मतम् । तदा सत्तासम्बन्ध उत्पादाद्भिन्नः किं वा अभिन्न इति । यदि भिन्नस्तदोत्पत्तेरसत्त्वाविशेषादुत्पत्त्यभावयोः किंकृतो भेदः । अथोत्पत्तिसमाक्रान्तवस्तुसत्त्वेनोत्पत्तिरपि तथाव्यपदिश्यते इति मतम् । तदपि अतिजाड्यवल्गितमेव । उत्पत्तिसत्त्वप्रतिविवादे वस्तुसत्त्वस्यातिदुर्घटत्त्वात् । इतरेतराश्रयदोषश्च । इत्युत्पत्तिसत्त्वे वस्तुनि तदेककालीनसत्तासम्बन्धावगमस्तदवगमे च तत्रत्यसत्त्वेनोत्पत्तिसत्त्वनिश्चय इति । अथैतद्दोष परिजिहीर्षया तयोरैक्यममभ्यनुज्ञायते, तर्हि तत्सम्बन्ध एव कार्यत्वमिति । ततो बुद्धिमद्धेतुकत्त्वे गगनादिभिरनेकान्तः । एतेन स्वकारणसम्बन्धोऽपि

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92