Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
द्वितीयसमुद्देशः। प्रसिद्धानुमानेऽप्यस्य दोषस्य सम्भवेन, जात्युत्तरत्वाच्च । तथाहि-नित्यः शब्दः प्रत्यभिज्ञायमानत्वादित्युक्ते व्यापकः शब्दो नित्यः प्रसाध्यते अव्यापको वा । यद्यव्यापकः तदा व्यापकत्वेनोपकल्प्यमानो न कञ्चिदर्थं पुष्णाति । अथ व्यापकः सोऽपि न । श्रुत्या सामर्थेन वाऽवगम्यते स्वशक्त्या दृष्टान्तानुग्रहेण वा । पक्षान्तरेऽपि तुल्यवृत्तित्वादिति सिद्धमतो निर्दोषात्साधनादशेषज्ञत्वमिति । यच्चाभावप्रमाणकवलितसत्ताकत्वमशेषज्ञस्योति तदयुक्तमेवानुमानस्य तद्ग्राहकस्य सद्भावे सति प्रमाणपञ्चकामावमू टस्याभावप्रमाणस्यापस्थापनायोगात् “ गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षयेति" च भावत्कं दर्शनम् । तथा च कालत्रयात्रिलोकलक्षणवस्तुसद्भावग्रहणेऽन्यत्रान्यदा गृहीतस्मरणे च सर्वज्ञनास्तिताज्ञानमभावप्रमाण युक्तम् । नापरथा । न च कस्यचिदग्दिर्शिनास्त्रिजगत्रिकालज्ञानमुपपद्यते सर्वज्ञस्यातीन्द्रियस्य वा । सर्वज्ञत्त्वं हि चेतोधर्मतयाऽतीन्द्रियं तदपि न प्रकृतपुरुषविषयमिति कथमभावप्रमाणमुदयमासादयेत्। असर्वज्ञस्य तदुत्पादसामग्र्या असम्भवात् । सम्भवे वा तथाज्ञातुरेव सर्वज्ञत्वमिति । अत्राधुना तदभावसाधनमित्यपि न युक्तं सिद्धसाध्यतानुषगात् । ततः सिद्धं मुख्यमतीन्द्रियज्ञानमशेषतो विशदम् । सार्वज्ञज्ञानस्याती. न्द्रियत्त्वादशुच्यादिदर्शनं तद्रसास्वादनदोषोऽपि परिहृत एव । कथमतीन्द्रियज्ञानस्य वैशद्यमिति चेत् । यथा सत्यस्वप्नज्ञानस्य भावनाज्ञानस्य चेति । दृश्यते हि भावनाबलादतद्देशवस्तुनोऽपि विशददर्शनमिति । “पिहिते कारागारे तमसि च सूचीमुखाग्रहदुर्भेद्य । मयि च निमीलितनयने तथापि कान्ताननं व्यक्तमिति” बहुलमुपलम्भात् । ननु च नावरणविश्लेषादशेषज्ञत्वमपि तु तनुकरणभुवनादिनिमित्तत्वेन । न चात्र तन्वादीनां बुद्धिमद्धेतुकत्वमसिद्धमनुमानादेस्तस्य सुप्रसिद्धत्वात् । तथाहि- विमत्यधिकरणभावापन्नं उर्वीपर्वततरुतन्वादिकं बुद्धिमद्धतुकं कार्यत्वादचेतनोपादानत्वात्सान्नवेशविशिष्ट

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92