Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 25
________________ द्वितीयसमुद्देशः। २३ निश्चयादितरेतराश्रयत्वाच्च । इतरप्रणीतस्य त्वनासादितप्रमाणभावस्याशेषज्ञप्ररूपणपरत्वं नितरामसम्भाव्यमिति । सर्वज्ञसदृशस्यापरस्य ग्रहणासम्भवाच्च नोपमानम् । अनन्यथाभूतस्यार्थस्याभावान्नार्थापत्तिरपि सर्वज्ञावबोधिकेति 'धर्माद्युपदेशस्य व्यामोहादपि सम्भवात् । द्विविधो ह्युपदेशः सम्यङिमथ्योपदेशभेदात् ; तत्र मन्वादीनां सम्यगुपदेशो यथार्थज्ञानोदयवेदमूलत्वात् । बुद्धादीनां तु व्यामोहपूर्वकः तदमूलत्वात् तेषामवेदार्थज्ञत्वात् । ततः प्रमाणपञ्चकाविषयत्वादभावप्रमाणस्यैव प्रवृत्तिस्तेन चाभाव एव ज्ञायते । भावांशे प्रत्यक्षादिप्रमाणपञ्चकस्य व्यापारादिति । अत्र प्रतिविधीयते । यत्तावदुक्तम्-प्रत्यक्षादिप्रमाणाविषयत्वमशेषज्ञस्येति तदयुक्तं, तद्ग्राहकस्यानुमानस्य सम्भवात् । तथाहि-कश्चित्पुरुषः सकलपदार्थसाक्षात्कारी । तद्ग्रहणस्वमाबत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात् । यद्यद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययं तत्तत्साक्षात्कारि । यथाऽपगततिमिरं लोचनं रूपसाक्षात्कारि । तद्ग्रहणस्वभावत्त्वे सति प्रक्षीणप्रतिबन्धप्रत्ययश्च विवादापन्नः कश्चिदिति सकलपदार्थग्रहणस्वभात्वं नात्मनोऽसिद्धं चोदनातः सकलपदार्थपरिज्ञानस्यान्यथायोगादन्धस्येवादर्शाद्रूपप्रतिपत्तेरिति । व्याप्तिज्ञानोत्पत्तिवलाच्चाशेषविषयज्ञानसम्भवः केवलं वैशये विवादः । तत्र चावरणापगम एव कारणं रजोनीहाराद्यावृतार्थज्ञानस्येव तदपगम इति । प्रक्षीणप्रतिबन्धप्रत्ययत्वं कथमिति चेदुच्यते-दोषावरणे कचिन्निर्मूलं प्रलयमुपव्रजतः प्रकृष्यमाणहानिकत्त्वात् । यस्य प्रकृष्यमाणहानिः । स कचिन्निमूलं प्रलयमुपव्रजति । यथाऽग्निपुटपाकापसारितकिट्टकालिकाद्यन्त रङ्गबहि रङ्गमलद्वयात्मनि हेम्नि मलमिति निर्हासातिशयवती च दोषावरणे इति । कथं पुनर्विवादाध्यासितस्य ज्ञानस्यावरण सिद्धं ? प्रतिषेधस्य विधिपूर्वक. त्वात् इति। अत्रोच्यते-विवादापन्नं ज्ञानं सावरणं, विशदतया स्वविषयानवबोधकत्वाद्रजोनीहाराद्यन्तरितार्थज्ञानवदिति। न चात्मनोऽमूर्त्तत्वादावारकावृत्त्ययोगः।

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92