Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
प्रमेयरत्नमाला |
सामग्रीविशेषविश्लेोषिताखिलावरणमतीन्द्रियमशेषतो मुख्यम् ॥ ११ ॥
सामग्री द्रव्यक्षेत्रकालभावलक्षणा, तस्या विशेषः समग्रतालक्षणः । तेन विश्लेषितानि अखिलान्यावरणानि येन तत्तथोक्तम् । किं विशिष्टं ? अतीन्द्रियमिन्द्रियाण्यतिक्रान्तम् । पुनरपि कीदृशमशेषतः सामस्त्येन विशदम् । अशेषतो वैशद्ये किं कारणमिति चेत् - प्रतिबन्धाभाव इति ब्रूमः । तत्रापि किं कारणमिति चेत्-अतीन्द्रियःवमनावरणत्वं चेति ब्रूमः । एतदपि कुत इत्याह
सावरणत्त्वे करणजन्यत्वे च प्रतिबन्धसम्भवात् ॥ १२ ॥
"
नन्ववधिमनःपर्यययोरनेनासंग्रहाद व्यापकमेतल्लक्षणमिति न वाच्यम् । तयोरपि स्वविषयेऽशेषतो विशदत्वादिधर्मसम्भवात् । नचैव मतिश्रुतयोरित्यतिव्याप्तिपरिहारः । तदेतदतीन्द्रियमवधिमनः पर्यय केवलप्रभेदात्रिविधमपि मुख्यं प्रत्यक्षमात्मसन्निधिमात्रापेक्षत्त्वादिति । नन्वशेषविषयविशदावभासि ज्ञानस्य तद्वतो वा प्रत्यक्षादिप्रमाणपञ्चकाविषयत्वेनाभावप्रमाणविषमविषधरविध्वस्तसत्ताकत्त्वात् कस्य मुख्यत्वम् ? तथाहि -नाध्यक्षमशेषज्ञविषयं तस्य रूपा - दिनियतगोचरचारित्त्वात् सम्बद्भवर्तमानविषयत्वाच्च । न चाशेषवेदी सम्बद्धो वर्तमानश्चेति । नाप्यनुमानात्तत्सिद्धिः । अनुमानं हि गृहीतसम्बन्धस्यैकदेशदर्शनादसन्निकृष्टे बुद्धिः । न च सर्वज्ञसद्भावाविनाभाविकार्यलिङ्गं स्वभावलिङ्ग वा सम्पश्यामः। तद्ज्ञप्तेः पूर्वं तत्स्वभावस्य तत्कार्यस्य वा तत्स्वभावाविनाभा विनो निश्चेतुमशक्तेः । नाप्यागमात्तत्सद्भावः । स हि नित्योऽनित्यो वा तत्सद्भावं भावयेत् । न तावन्नित्यः तस्यार्थवादरूपस्य कर्मविशेषसंस्तवनपरत्वेन पुरुषविशेषावबोधकत्वायोगात् । अनादेरागमस्यादिमत्पुरुषवाचकत्वाघटनाच्च । नाप्यनित्य आगमः सर्वज्ञं साधयति । तस्यापि तत्प्रणीतस्य तन्निश्चयमन्तरेण प्रामाण्य:
२२

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92