Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
प्रमेयरत्नमाला। वादन्यथा तस्य स्वव्यवसायायोगात् । स्मृत्यादिस्वरूपसंवेदनं मानसमेवेति नापरं स्वसंवेदनं नामाध्यक्षमस्ति ॥ ननु प्रत्यक्षस्योत्पादकं कारणं वदता ग्रन्थकारणेन्द्रियानिन्द्रियवदर्थालोकावपि किं न कारणत्वेनोक्तौ ? तदवचने कारणानां साकल्यस्यासंग्रहाद्विनेयव्यामोह एव स्यात् । तदियत्ताऽनवधारणात् । न च भगवतः परमकारुणिकस्य चेष्टा तद्व्यामोहाय प्रभवतीत्याशङ्कायामुच्यते
नार्थालोको कारणं परिच्छेद्यत्त्वात्तमोवत् ॥ ६॥ सुगममेतत् । ननु बाह्यालोकाभावं विहाय तमसोऽन्यस्याभावात्साधनविकलो दृष्टान्त इति । नैवम् । एवं सति बाह्यालोकस्यापि तमोऽभावादन्यस्यासम्भवात्तेजोद्रव्यस्यासम्भव इति विस्तरेणैतदलङ्कारे प्रतिपादितं बोद्धव्यम् । अत्रैव साध्ये हेत्वन्तरमाह
तदन्वयव्यतिरेकानुविधानाभावाच्च केशोण्डुकज्ञानवनक्तंचरज्ञानवच्च ॥ ७॥ अत्र व्याप्तिः । यद्यस्यान्वयव्यतिरेको नानुविदधाति न तत्तत्कारणकं, यथा केशोंडुकज्ञानं, नानुविधत्ते च ज्ञानमर्थान्वयव्यतिरेकाविति । तथा आलोकेऽपि । एतावान् विशेषस्तत्र नक्तंचरदृष्टान्त इति । नक्तंचरा मार्जारादयः । ननु विज्ञानमर्थजनितमर्थाकारं चार्थस्यप्राहकम् । तदुत्पत्तिमन्तरेण विषयंप्रति नियमायोगात् । तदुत्पत्तेरालोकादावविशिष्टत्त्वात्ताद्रूप्यसहिताया एव तस्यास्तंप्रति नियमहेतुत्त्वात् भिन्नकालत्वेऽपि ज्ञानज्ञेययो ह्यग्राहकभावाविरोधात् । तथाचोक्तम्- भिन्नकालं कथं ग्राह्यमितिचेद्ग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञास्तदाकारार्पणक्षमम् । इत्याशङ्कायामिदमाह--
अतजन्यमपि तत्पकाशकं प्रदीपवत् ॥ ८ ॥ अर्थाजन्यमप्यर्थप्रकाशकमित्यर्थः । अतज्जन्यत्वमुपलक्षणम् । तेनातदाकारमपीत्यर्थः । उभयत्रापि प्रदीपो दृष्टान्तः । यथा प्रदी

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92