Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 20
________________ प्रमेयरत्नमाला। णान्तरत्वमतिवर्त्तते । एतेन त्रिचतुःपञ्चषट्प्रमाणवादिनोऽपि सांख्याक्षपादप्रमाकरजैमिनीयाः स्वप्रमाणसंख्यां न व्यवस्थापयितुं क्षमा इति प्रतिपादितमवगन्तव्यम् । उक्तन्यायेन स्मृतिप्रत्यभिज्ञानतर्काणां तदभ्युपगतप्रमाण संख्यापरिपंथित्वादिति प्रत्यक्षतरभेदात् द्वे एव प्रमाणे इति स्थितम् । अथेदानी प्रथमप्रमाणभेदस्य स्वरूपं निरूपयितुमाह विशदं प्रत्यक्षमिति ॥३॥ ज्ञानमिति वर्तते । प्रत्यक्षमिति धर्मिनिर्देशः । विशदज्ञानात्मकं साध्यम् । प्रत्यक्षत्त्वादिति हेतुः । तथाहि-प्रत्यक्षं विशदज्ञानात्मकमेव प्रत्यक्षत्त्वात् । यन्न विशदज्ञानात्मकं तन्न प्रत्यक्षं, यथा परोक्षम् । प्रत्यक्षं च विवादापन्नं, तस्माद्विशदज्ञानात्मकमिति । प्रतिज्ञार्थंकदेशासिद्धो हेतुरिति चेत् का पुनः प्रतिज्ञा तदेकदेशो वा ? धर्मिधर्मसमुदायः प्रतिज्ञा । तदेकदेशो धर्मों धर्मी वा ? हेतुः प्रतिज्ञार्थंकदेशासिद्ध इति चेन्न-धर्मिणो हेतुत्वे असिद्धत्वायोगात्। तस्य पक्षप्रयोगकालवद्धेतुप्रयोगेऽप्यसिद्धबायोगात् । धर्मिणो हेतुत्त्वे अनन्वयदोष इति चेत् न-विशेषस्य धर्मित्वात् । सामान्यस्य च हेतुःवात् तस्य च विशेषेष्वनुगमो विशेषनिष्ठत्वात्सामान्यस्य । अथ साध्यधर्मस्य हेतुत्वें प्रतिज्ञार्थंकदेशासिद्धत्वमिति तदप्यसम्मतम् । साध्यस्य स्वरूपेणैवासिद्धत्वात् । न प्रतिज्ञार्थंकदेशासिद्धत्वेन तस्यासिद्धत्वं, धर्मिणा व्यभिचारात् । सपक्षे वृत्त्यभावाद्धेतोरनन्वय इत्यप्यसत् । सर्वभावानां क्षणभङ्गसङ्गममेवाङ्गशृङ्गारमङ्गीकुर्वतां ताथागतानां सत्त्वादिहेतूनामनुदयप्रसङ्गात् । विपक्षे बाधकप्रमाणाभावात् । पक्षव्यापकत्वाच्चान्वयवत्वं प्रकृतेऽपि समानम् । इदानी स्वोक्तमेव विशदत्वं व्याचष्टे प्रतीत्यन्तराव्यवधानेन विशेषवत्तया वा प्रतिभासनं वैशद्यमिति ॥ ४ ॥

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92