Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 18
________________ प्रमेयवतमाला। कावस्थाव्याप्येकदन्यमिन्द्रियाणां - रूपादिगोचरचारित्वेन चरितार्थत्वाच्च ।। नाप्यदृष्टसहकारिसव्यपेक्षमिन्द्रियमेकत्वविषयं । उक्तदोषादेव ॥ किञ्चादृष्टसंस्कारादिसव्यपेक्षादेवात्मनस्तद्विज्ञानमितिकिन्न कल्प्यते ? दृश्यते हि स्वप्नसारस्वतचाण्डालिकादिविद्यासंस्कृतादात्मनो विशिष्टज्ञानोत्पत्तिरिति ॥ नन्वञ्जनादि संस्कृतमपि चक्षुः सातिशयमुपलभ्यते इति चेत् न, तस्य स्वार्थानतिक्रमेणैवातिशयोपलब्धेर्न विषयान्तरग्रहणलक्षणातिशयस्य । तथाचोक्तम्यत्राऽप्यतिशयो दृष्टः स स्वार्थानतिलंघनात् । दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तित इति ॥ ३॥ नन्वस्य वार्तिकस्य सर्वज्ञप्रतिषेधपरत्वाद्विषमो दृष्टान्त इतिचेन-इन्द्रियाणां विषयान्तरप्रवृत्तावतिशयामावमात्रे सादृश्यात् दृष्टान्तत्वोपपत्तेः। न हि सर्वो दृष्टान्तधर्मो दार्टान्तिके भवितुमर्हति । अन्यथा दृष्टान्त एव न स्यादिति। ततः स्थित प्रत्यक्षानुमानाभ्यामर्थान्तरं प्रत्यभिज्ञानं सामग्रीस्वरूपमेदादिति। न चैतदप्रमाणं ततोऽर्थ परिच्छिद्य प्रवर्त्तमानस्यार्थक्रियायामविसंवादात् प्रत्यक्षवदिति । नचैकत्वापलापेबन्धमोक्षादिव्यवस्था अनुमानव्यवस्था वा । एकत्वाभावे बद्धस्यैव मोक्षादेर्गृहीतसम्बन्धस्यैव लिङ्गस्यादर्शनादनुमानस्य च व्यवस्थायोगादिति । नचास्य विषये बाधकप्रमाणसद्भ वादप्रामाण्यं तद्विषये प्रत्यक्षस्य लैङ्गिकस्य चाप्रवृत्तेः। प्रवृत्तौ वा प्रत्युत साधकत्वमेव न बाधकत्वमित्यलमतिप्रसंगेन । तथा सौगतस्य प्रमाणसंख्याविरोधिविध्वस्तबाधं तर्काख्यमुपढौकत एव । नचैतत्प्रत्यक्षेऽन्तर्भवति । साध्यसाधनयोाप्यव्यापकभावस्य साकल्येन प्रत्यक्षाविषयत्वात् । न हि तदियतो व्यापारान्कर्तुं शक्नोति । अविचारकत्वात् सन्निहितविषयत्त्वाच्च । नाप्यनुमाने, तस्यापि देशादिविषयविशिष्टत्त्वेन व्याप्त्यविषयत्त्वात् । तद्विषयत्त्वे वा प्रकृतानुमानान्तरावंकल्पद्वयानतिक्रमात् । तत्र प्रकृतानुमानेन व्याप्तिप्रतिपत्तावितरेतर.श्रयत्वप्रसङ्गः । व्याप्तौ हि प्रतिपन्नायामनुमानमात्मानमासादयति ।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92