Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 16
________________ १४ प्रमेयरत्नमाला। नस्य पावकादेः सकलविचारचतुरचेतास सर्वदा प्रतीयमानत्त्वात् ॥ यदपि स्वभावहेतोर्व्यभिचारसम्भावनमुक्तम् । तदप्यनुचितमेव- स्वभावमात्रस्याहेतुत्त्वात् । व्याप्यरूपस्यैव स्वभावस्य व्यापकम्प्रति गमकत्वाभ्युपगमात् । न च व्याप्यस्य , व्यापकव्याभिचारित्वं व्याप्यत्त्वविरोधप्रसङ्गात् ॥ किञ्च एवं-वादिनो नाध्यक्ष प्रमाणं व्यवतिष्ठते । तत्राप्यसंवादस्यागौणत्त्वस्य च प्रामाण्याविनामावित्वेन निश्चेतुमशक्यत्त्वात् । यच्च कार्यहेतोरप्यन्यथापि सम्भावनं तदप्यशिक्षितलक्षितं सुविवेचितस्य कार्यस्य कारणव्यभिचारित्त्वात् । यादृशो हि धूमो ज्वलनकार्य भूधरनितम्बादावतिबहलधवलतया प्रसर्पन्नुपलभ्यते, न तादृशो गोपालघटिकादाविति ॥ यदप्युक्तम् “ शक्रमूर्द्धनि धूमस्यान्यथापि भाव इति" तत्र किमयं शक्रमूर्धा अग्निस्वभावोऽन्यथा वा ? यद्यग्निस्वभावस्तदाग्निरेवेति कथं तदुद्भूतधूमस्यान्यथाभावः शक्यते कल्पयितुम् । अथानग्निस्वभावस्तदा तदुद्भवो धूम एव न भवतीति कथं तस्य तद्व्यभिचारित्वमिति । तथाचोक्तम्-अग्निस्वभावः शक्रस्य मूर्द्धा चेदग्निरेव सः । अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेदिति ॥ १ ॥ किञ्च प्रत्यक्षं प्रमाणमिति कथमयं परं प्रतिपादयेत् । परस्य प्रत्यक्षेण गृहीतुमशक्यत्वात् । व्याहारादिकार्यप्रदर्शनात्तं प्रतिपद्यतेति चेत्-आयातं तर्हि कार्यात्करणानुमानम् । अथ लोकव्यवहारापेक्षयेष्यत एवानुमानमपि, परलोकादावेवानभ्युपगमात्तदभावादिति । कथं तदभावोऽनुपलब्धेरिति चेत्- तदाऽनुपलब्धिलिङ्गजनितमनुमानमपरमापतितमिति ॥ प्रत्यक्षप्रामाण्यमपि स्वभावहेतुजातानुमितिमन्तरेण नोपपत्तिमियर्तीति प्रागेवोक्तमित्युपरम्यते ॥ यदप्युक्तं धर्मकीर्तिना-प्रमाणेतरसामान्यस्थितेरन्यधियो गतः । प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचिदिति ॥ २ ॥ ततः प्रत्यक्षमनुमानमिति प्रमाणद्वयमेवेति सौगतः । सोऽपि न युक्तवादी । स्मृतेरविसं

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92