Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
अथ प्रमाणस्वरूपविप्रतिपत्तिं निरस्येदानी संख्याविप्रतिपर्ति प्रतिक्षिपन्सकलप्रमाणमेदसन्दर्मसंग्रहपरं प्रमापोयत्ताप्रतिपादकं वाक्यमाह
क्षेति ॥१॥ तच्छब्देन प्रमाणं परामृश्यते । तत्प्रमाणं स्वरूपेणावगतं द्वधा छिप्रकारमेव । सकलप्रमाणभेदानामत्रैवान्तावात् ॥ तद्वित्त्वमध्पक्षानुमानप्रकारेणापि सम्भवतीति तदाशकानिराकरणार्थ सकलप्रमाणमेदसंग्रहशालिनी संख्या प्रत्यक्तीकरोति
. प्रत्यक्षतरभेदादिति ॥ २॥ प्रत्यक्षं वक्ष्यमाणलक्षणं, इतरत्परोक्षं, ताभ्यां भेदात्प्रमाणस्येति शेषः । न हि परपरिकल्पितैकद्वित्रिचतुःपञ्चषट्प्रमाणसंख्यानियमे निखिलप्रमाणमेदानामन्तर्भावविभावना शक्या कर्तुम् । तथाहि-प्रत्यक्षैकप्रमाणवादिनश्चावाकस्य नाध्यक्षे लैङ्गिकस्यान्तर्भावो युक्तः तस्य तद्विलक्षणत्वात् । सामग्रीस्वरूपभेदात् ॥ अथ नाप्रत्यक्षं प्रमाणमस्ति विसंवादसम्भवात् । निश्चिताविनाभावाल्लिङ्गालिङ्गिनि ज्ञानमनुमानमित्यानुमानिकशासनं, तत्र च स्वभावलिङ्गस्य बहुलमन्यथाऽपि भावो दृश्यते । तथाहि कषायरसोपेतानामामलकानामेतद्देशकालसम्बधिनां दर्शनेऽपि देशान्तरे कालान्तरे द्रव्यान्तरसम्बन्धे च अन्यथाऽपि दर्शनात्स्वभावहेतुर्व्यभिचार्येव लताच्यूतवल्लताशिंशपादिसम्भावनाच ॥ तथा कार्यलिङ्गमपि गोपालघटिकादौ धूमस्य शक्रमूर्ध्नि चान्यथाऽपि मावात्पावकव्यभिचार्येव । ततः प्रत्यक्षमेवैकं प्रमाणमस्यैवाविसंवादकत्त्वादिति । तदेतद्बालविलसितमिवाभात्युपपत्तिशून्यत्त्वात् । तथाहि- किमप्रत्यक्षस्योत्पादककारणाभावादालम्बनामावाद्वा प्रामाण्यं निषिध्यते ? तत्र न तावत्प्राक्तनः पक्षः। तदुत्पादकस्य सुनिश्चितान्यथानुपपत्तिनियतनिश्चयलक्षणस्य साधनस्य सद्भावात् । नो खल्वप्युदीचीनः पक्षः । तदालम्ब

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92