Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 19
________________ द्वितीयसमुद्देशः। तदात्मलाभे च व्याप्तिप्रतिपत्तिरिति, अनुमानान्तरेणाविनाभावप्रतिपत्तावनवस्थाचमूरी परपक्षचमू चञ्चमीति इति नानुमानगम्या व्याप्तिः । नापि सांख्यादिपरिकल्पितैरागमोपमानार्थापत्त्यभावः साकल्येनाविनाभावावगतिः । तेषां समयसंगृहीतसादृश्यान्यथाऽनन्यथाभूताभावविषयत्त्वेन व्याप्त्यविषयत्वात् । परैस्तथाऽनभ्युपगमाच्च । अथ प्रत्यक्षपृष्ठभाविविकल्पात् साकल्येन साध्यसाधनभावप्रतिपत्तेर्न प्रमाणान्तरं तदर्थ मृग्यमित्यपरः । सोऽपि न युक्तवादीविकल्पस्याध्यक्षगृहीतविषयस्य तदगृहीतविषयस्य वा तद्वयवस्थापकत्वम् ! आये, पक्षे दर्शनस्येव तदनन्तरभाविनिर्णयस्यापि नियतविषयत्वेन व्याप्त्यगोचरत्वात् । द्वितीयपक्षेऽपि विकल्पद्वयमुपढौकत एव । तद्विकल्पज्ञानं 'प्रमाणमन्यथा वेति ? प्रथमपक्षे प्रमाणान्तरमनुमन्तव्यं, प्रमाणद्वयेऽनन्त र्भावात् । उत्तरपक्षे तु न ततोऽनुमानव्यवस्था । न हि. व्याप्तिज्ञानस्याप्रामाण्ये तत्पूर्वकमनुमानं प्रमाणमास्कन्दति सन्दिग्धादिलिङ्गादप्युत्पद्यमानस्य प्रामाण्यप्रसङ्गात् । ततो व्याप्तिज्ञानं सविकल्पमविसंवादकं च प्रमाणं प्रमाणद्वयादन्यदभ्युपगम्यामेति न सौगताभिमतप्रमाणसंख्यानियमः । एतेनानुपलम्भात्कारणव्यापकानुपलम्भाच्च कार्यकारणव्याप्यव्यापकमावसंवित्तिरितिवदन्नपि प्रत्युक्तः । अनुपलम्भस्य प्रत्यक्षविषयत्वेन कारणाद्यनुपलम्भस्य च लिंगत्वेन तजनितस्यानुमानत्वात् प्रत्यक्षानुमानाभ्यां व्याप्तिग्रहणपक्षोपक्षिप्तदोषानुषंगात् । एतेन प्रत्यक्षफलेनोहापोहविकल्पज्ञानेन व्याप्तिप्रतिपत्तिरित्यप्यपास्तम् । प्रत्यक्षफलस्यापि प्रत्यक्षानुमानयोरन्यतरत्वे व्याप्तेरविषयीकरणात् तदन्यत्वे च प्रमाणान्तरत्वमनिवार्यमिति । अथ व्याप्तिविकल्पस्य फलत्वान्न प्रामाण्यमिति न युक्तम् । फलस्याप्यनुमानलक्षणफलहेतुतया प्रमाणत्वाविरोधात् । तथा सन्निकर्षफलस्यापि विशेषणज्ञानस्य विशेष्यज्ञानलक्षणफलापेक्षया प्रमाणत्वमिति न वैशेषिकाभ्युपगतोहापोहविकल्पः प्रमा

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92