Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
प्रमेयरत्नमाला। त्वाद्वा वस्त्रादिवदिति । आगमोऽपि तदावेदकः श्रूयते- " विश्वतश्चक्षुरुत विश्वतोमुखो विश्वताबाहुरुत विश्वतः पात् । सम्बाहुभ्यां धमतिसम्पतत्रै
वाभूमी जनयन्देव एकः " तथा व्यासवचनं च “अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा ॥१॥" न चाचेतनैरेव परमाण्वादिकारणैः पर्याप्तत्त्वाद्बुद्धिमतः कारणस्यानर्थक्यम् । अचेतनानां स्वयंकार्योत्पत्तौ व्यापारायोगात्तुर्यादिवत् । न चैव चेतनस्यापि चेतनान्तरपूर्वकत्त्वादनवस्था । तस्य सकलपुरुषज्येष्ठत्वान्निरतिशयत्वात्सर्वज्ञबीजस्य " क्लेशकर्मविपाकाशयैरपरामृष्टत्वादनादिभूतानश्वरज्ञानसम्भवाच्च । यदाह पतञ्जलि:- “क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषः सर्वज्ञः स पूर्वेषामपि गुरुः कालेनाविच्छेदादिति " च " ऐश्वर्यमप्रतिहतं सहजो विरागस्तृप्तिनिसर्गजनिता वशितेन्द्रियेषु । आत्यन्तिकं सुखमनावरणा च शक्तिर्ज्ञानं च सर्वविषयं भगवंस्तवैव " इत्यवधूतवचनाच्च । न चात्र कार्यत्वमसिद्धम् । सावयवत्वेन कार्यत्वसिद्धः । नापि विरुद्धं, विपक्ष एव वृत्त्यभावात् । नाप्यनैकान्तिकं,, विपक्षे परमाण्वादावप्रवृत्तेः । प्रतिपक्षसिद्धिनिबन्धनस्य साधनान्तरस्याभावान्न प्रकरणसमम् । अथ तन्वादिकं बुद्धिमद्धतुकं न भवति दृष्टकर्तृकप्रासादादिविलक्षणत्वादाकाशवदित्यस्त्येव प्रतिपक्षसाधनमिति । नैतद्युक्तं, हेतोरसिद्धत्वात् । सन्निवेशविशिष्टत्वेन प्रासादादिसमानजातीयत्वेन तन्वादीनामुपलम्भात् । अथ यादृशः प्रासादादौ सन्निवेशविशेषो दृष्टो न तादृशस्तन्वादावितिचेन्न सर्वात्मना सदृशस्य कस्यचिदप्यभावात् । सातिशयसन्निवेशो हि सातिशयं कर्तार गमयति प्रासादादिवत् । न च दृष्टकर्तृकत्वादृष्टकर्तृकत्वाभ्यां बुद्धिमन्निमित्ते तरत्वसिद्धिः । कृत्रिमैमणिमुक्ताफलादिभिर्व्यभिचारात् । एतेनाचेतनोपादानत्यादिकमपि समर्थितमिति सूक्तं बुद्धिमद्धेतुकत्वं ततश्च सर्ववेदित्वमिति ॥

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92