Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 14
________________ १२ प्रमेवरत्नमाला। जन्ये, मिन्नकार्यत्वात् । घटवस्त्रवदिति च । ततः स्थित प्रामाण्यमुत्पत्तौ परापेक्षामिति । तथा विषयपरिच्छित्तिलक्षणे प्रवृत्तिलक्षणे वा स्वकार्ये स्वग्रहणं नापेक्षत इति नैकान्तः कचिदभ्यस्तविषय एव परानपेक्षत्व. व्यवस्थानात् । अनभ्यस्ते तु जलमरीचिकासाधारणप्रदेशे जलज्ञान परापेक्षमेव । सत्यमिदं जलं, विशिष्टाकारधारित्वात् घटचेटिकापेटकदर्दुरारावसरोजगन्धवत्त्वाच्च, परिदृष्टजलवदित्यनुमानज्ञानादर्थक्रियाज्ञानाच, स्वतःसिद्धप्रामाण्यात्प्राचीनज्ञानस्य यथार्थत्वमाकल्पमवकल्प्यत एव ॥ यदप्यभिहितं प्रामाण्यग्रहणोत्तरकालमुत्पत्त्यवस्थातः परिच्छित्तेर्विशेषो नावभासंत इति । तत्र यद्यभ्यस्तविषये नावभासत इत्युच्यते तदा तदिष्यत एव । तत्र प्रथममेव निःसंशयं विषयपरिच्छत्तिविशेषाभ्युपगमात् । अनभ्यस्तविषये तु तद्ग्रहणोत्तरकालमस्त्येव विषयावधारणस्वभावपरिच्छत्तिविशेषः । पूर्व प्रमाणाप्रमाणसाधारण्या एव परिच्छित्तेरुत्पत्तेः । ननु प्रामाण्यपरिच्छित्त्यारेभेदात्कथं पौर्वापमिति ? नैवम् । नहि सर्वाऽपि परिच्छित्तिः प्रामाण्यामिका, प्रामाण्यं तु परिच्छित्त्यात्मकमेवेति न दोषः । यदप्युक्तम्- बाधककारणदोषज्ञानाभ्यां प्रामाण्यमपोद्यत इति- तदपि फल्गुभाषितमेव । अप्रामाण्येऽपि तथा वक्तुं शक्यत्वात् । तथाहिप्रथममप्रमाणमेव ज्ञानमुत्पद्यते पश्चादबाधबोधगुणज्ञानोत्तरकालं तदपोद्यत इति । तस्मात्प्रामाण्यमप्रामाण्यं वा स्वकार्ये कचिदभ्यासानभ्यासापेक्षया स्वतः परतश्चेति निर्णेतव्यमिति ॥ देवस्य सम्मतमपास्तसमस्तदोषं वीक्ष्य प्रपञ्चरुचिरं रचितं समस्य । माणिक्यनन्दिविभुना शिशुबोधहेतोर्मानस्वरूपममुना स्फुटमभ्यधायि ॥ १॥ इति परीक्षामुखलघुवृत्तौ प्रमाणस्य स्वरूपोद्देशः ॥ १॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92