Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 12
________________ प्रमेयरत्नमाला। लक्षणे वा स्वकाय अभ्यासेतरदशापेक्षया कचित्स्वतः परतश्चेति निश्चीयते ॥ ननूत्पत्तौ विज्ञानकार णातिरिक्तकारणान्तरसव्यपेक्षत्वमसिद्धम् । प्रामाण्यस्य तदितरस्यैवाभावात् । गुणाख्यमस्तीति वाङ्मात्रं, विधिमुखेन कार्यमुखेन वा गुणानामप्रतीतेः । नाप्यप्रामाण्यं स्वत एव प्रामाण्यं तु परत एवेति विपर्ययः शक्यते कल्पयितुम् । अन्वयव्यतिरेकाभ्यां हि त्रिरूपालिङ्गादेव केवलात् प्रामाण्यमुत्पद्यमानं दृष्टम् । प्रत्यक्षादिष्वपि तथैव प्रतिपत्तव्यं नान्यथेति । तत एवाऽऽप्तोक्तत्वगुणसद्भावेऽपि न तत्कृतमागमस्य प्रामाण्यम् । तत्रहि गुणेभ्यो दोषाणामभावस्तदभावाच्च संशयविपर्यासलक्षणाप्रामाण्यद्वयासत्त्वेऽपि प्रामाण्यमौत्सर्गिकमनपादितमास्त एवेति । ततः स्थितं प्रामाण्यमुत्पत्तौ न सामग्र्यन्तरसापेक्षमिति । नापि विषयपरिच्छित्तिलक्षणे स्वकार्ये स्वगृहणसापेक्षम् । अगृहीतप्रामाण्यादेव ज्ञानाद्विषयपरिच्छित्तिलक्षणकार्यदर्शनात् ॥ ननु न परिच्छित्तिमात्रं प्रमाणकार्य तस्य मिथ्याज्ञानेऽपि सद्भावात् । परिच्छित्तिविशेषं तु नागृहीतप्रामाण्यं विज्ञानं जनयतीति । तदपि बालविलसितम् । नहि प्रामाण्यग्रहणोत्तरकालमुत्पत्त्यवस्थातः परिच्छित्तेर्विशेषोऽवभासते, गृहीतप्रामाण्यादपि विज्ञानान्निविशेषविषयपरिच्छेदोपलब्धेः ॥ ननु परिच्छत्तिमात्रस्य शुक्तिकायां रजतज्ञानेऽपि सद्भावात्तस्यापि प्रमाणकार्यत्वप्रसङ्ग इति चेत्- मवेदेवं, यद्यर्थान्यथात्वप्रत्ययस्वहेतूत्थदोषज्ञानाभ्यां तनापोद्यत । तस्माद्यत्र कारणदोषज्ञानं बाधकप्रत्ययो वा नोदेति, तत्र स्वत एव प्रामाण्यमिति । नचैवमप्रामाण्येऽप्याशङ्कनीयं, तस्य विज्ञानकारणातिरिक्तदोषस्वभावसामग्रीसव्यपेक्षतयोत्पत्तेः निवृत्तिलक्षणे च स्वकार्ये स्वग्रहणसापेक्षत्वात् । तद्धि यावन्न ज्ञानं न तावत्स्वविषयात्पुरुषं निवर्तयतीति ॥ तदेतत्सर्वमनल्पतमोविलसितम् । तथाहि- न तावत्प्रामाण्यस्योत्पत्तौ सामग्रयन्तरापेक्षत्वमसिद्धम् । आप्तप्रणीतत्वलक्षणगुणसन्निधाने सत्येवाप्त

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92