Book Title: Pramey Ratnamala
Author(s): Anantvirya Shrimad
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 11
________________ लेखे यथाक्रमं तत्प्रतीतिर्द्रष्टव्या ॥ ननु शब्दपरामर्शसचिवेयं प्रतीतिर्न वस्तुत्वबलोपजातेत्यत्राह शब्दानुच्चारणेऽपि स्वस्पानुभवनमर्थवदिति ॥ १० ॥ __ यथा घटादिशब्दानुच्चारणेऽपि घटाद्यनुभवस्तथाऽहमहमिकया योऽयमन्तर्मुखाकारतयावमासः स शब्दानुच्चारणेऽपि स्वयमनुभ्यत इत्यर्थः ॥ अमुमेवार्थमुपपत्तिपूर्वकं परंप्रति सोल्लुण्ठमाचष्टेको वा तत्सतिभासनमर्थमध्यक्षमिच्छंस्तदेव तथा नेच्छेत् ॥११॥ __ को वा लौकिकः परीक्षको वा । तेन ज्ञानेन प्रतिमासितुं शीलं यस्य स तथोक्तस्तं प्रत्यक्षविषयमिच्छन् विषयिधर्मस्य विषये उपचारात् तदेव ज्ञानमेव तथा प्रत्यक्षत्वेन नेच्छेत् अपि विच्छेदेव । अन्यथा अप्रामाणिकत्वप्रसङ्गः स्यादित्यर्थः ॥ अत्रोदाहरणमाह प्रदीपवदिति ॥ १२॥ इदमत्र तात्पर्यम्-ज्ञानं स्वावभासने स्वातिरिक्तसजातीयार्थान्तरानपेक्षं प्रत्यक्षार्थगुणत्वे सति अदृष्टानुयायिकरणत्वात्प्रदीपमासुराकारवत् ॥ अथ भवतु नामोक्तलक्षणलक्षितं प्रमाणं, तथापि तत्प्रामाण्यं स्वतः परतो वा ? न तावत्स्वतः अविप्रतिपत्तिप्रसङ्गात् । नापि परत:-अनवस्थाप्रसङ्गादिति मतद्वयमाशंक्य तन्निराकरणेन स्वमतमवस्थापयन्नाह तत्मामाण्यं स्वतः परतश्चेति ॥ १३॥ सोपस्काराणि हि वाक्यानि भवन्ति । तत इदं प्रतिपत्तव्यं अभ्यासदशायां स्वतोऽनभ्यासदशायां च परत इति । तेन प्रागुक्तैकान्तद्वयनिरासः। नचानभ्यासदशायां परतः प्रामाण्येऽप्यनवस्था समाना, ज्ञानान्तरस्याभ्यस्तविषयस्य स्वतः प्रमाणभूतस्याङ्गीकरणात् । अथवा प्रामाण्यमुत्पत्तौ परत एव । विशिष्टकारणप्रमत्त्वाद्विशिष्टकार्यस्योत । विषयपरिच्छत्तिलक्षणे प्रवृत्ति

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92