Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 15
________________ सदा प्रकाशमानोऽपि, मेघाच्छन्नो हि भास्करः जायते तद्वदत्राऽपि, सत्ये दृष्टान्त एषकः ॥८९॥ बुटेराजप्रतापाग्निः, प्रासरड्ढुण्ढकावनौ । दृश्यते यत्र कुत्राऽपि दग्धप्रायाऽधुनाऽपि सा ॥९०॥ तस्यैव पुण्यभाजोऽयं, शिष्यवर्यो धरातले । वृद्धिचन्द्राभिधानोऽधि-जातो जैनशिरोमणिः ॥९१॥ सौराष्ट्रगुर्जरमरुप्रभृतिप्रदेशे, सद्देशनां विदधतो भ्रमतो हिताय । उन्मूल्य ढुण्ढकमतं सफलीबभूव, यात्राऽस्य सिद्धकुधरस्य मुनेः सुपुण्या ॥९२।। श्रीमज्जिनेन्द्रमुखभाषितधर्मसेतुं, संस्थाप्य ढुण्ढजलधौ मतिरज्जुपुजैः । नाकं ह्यगात्क्षपितकर्ममलो मुनीन्द्रो, यं प्राणिनो गतभयाः सुतरां तरन्ति ॥९३।। चन्द्रस्य चन्द्रत्वमतः प्रसिद्धि, यातं यतो नाम महाप्रशस्तिः । धर्मोऽपि जैनो जिनदेवनिष्ठः, एतर्हि संयाति प्रशस्तभावम् ॥९४|| यत्कीतिचन्द्रः सततं रसायां, संभ्रम्य संभ्रम्य न शान्तिमेति । मन्ये स एवाऽम्बरमध्यभागे, संराजते चन्द्रमवाप्य शान्तः ॥९५।। तं सर्वलोककमनीयमनल्पकान्ति, को वा भजेनहि च ना गुरुवृद्धिकामी । चिन्तामणि सकलसौख्यकरं विहाय, को लोष्टपिण्डमभिकामयते शरीरी ॥९६॥ . तन्नामधामसुजुषो गुणवृद्धिलोला, रङ्का भवेयुरिह नाऽपि भवान्तरेषु । तस्माद् भजध्वमनिशं गुण-वृद्धिचन्दं, वक्ति प्रमाणपटु-माधवदास एषः ॥९७।। पुण्यात्मनामुभयलोकयशोऽभिवृद्धि-वंशोऽपि वंशमुकुटो विलसत्प्रभावः । यद्वंशसिन्धुचलवीचिमहासुपोतः, श्रीनेमिसूरि-मुनिराजविनेयभानुः ॥९८|| ऐदंयुगीनसमयेऽपि युगप्रधानः, संभाति शिष्यनिकरैविबुधाग्रगण्यैः । सोऽयं विभातु विदधातु शिवं समेषां, श्रीवृद्धिचन्द्रमुनिराड् विबुधद्रुकल्पः ॥९९।। न्यायादिशास्त्रपरसिन्धुविलोडनाग-श्रीनन्दनाभिधमुनीशनिदेशतोऽयम् । श्रीहेमचन्द्रविजयः परमेष्ठिवृद्धि-चन्द्रात्मसद्गुरुगुरोः शतकं व्यधत्त ॥१०॥ ॥ इति श्रीवृद्धिचन्द्र-शतकं समाप्तम् ॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130