Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 92
________________ मर्म गंभीरम् मुनिकल्याणकीर्तिविजयः ( १ ) पुनर्जन्म "केचन जना मन्यन्ते यन्मरणानन्तरं जीवनं जन्म वा नैवाऽस्ति !" शिष्यः स्वगुरुं प्रति । "एवं वा ?" गुरुरन्यमनस्क इवाऽवदत् । " मरणस्यैष विचार एव कीदृक् त्रासदोऽस्ति यत् पुनर्न कदाचिदपि किमपि द्रष्टव्यं श्रोतव्यं गन्तव्यं प्रेम वा कर्तव्यम् !!" शिष्यः साक्षेपं कथितवान् । - “भवता तत् त्रासदं प्रतीयते ? अरे ! प्रायशो जना मरणात् पूर्वमपि न किञ्चित् शृण्वन्ति पश्यन्ति गच्छन्ति प्रेम वाऽपि कुर्वन्ति !!" गुरु: सस्मितमकथयत् । इत्युक्तवान् कश्चन (२) धार्मिकता बाइबल्-पुस्तकानामेको दुर्वेष्टितो बन्धः पत्रवाहेन प्रेषितो यावत् पत्रालयं प्राप्तस्तावतैवाऽपावृतो जात:, सुन्दरतया मुद्रितानि दृढावरणयुक्तानि च पुस्तकानीतस्ततः विकीर्णानि पत्रालय भूपृष्ठे । तानि दृष्ट्वैकः पत्रवाहकस्तत एकस्य पुस्तकस्य ग्रहणात् स्वं रोद्धुं नाऽशक्नोत् । अनन्तरं यदा स गुरोः समक्षं स्वीयं पापं निवेदितवान् तदा गुरुरपृच्छत् - "केन कारणेन भवान् बाइबल्-पुस्तकं चोरितवान् ?" " मम धार्मिकस्वभावत्वात् गुरो !” सपश्चात्तापं स उक्तवान् । ( ३ ) वर्तमानो दिवस: “किं भवान् पर्वदिनस्य शुभकामना अस्मभ्यं नैव दद्यात् ?" - कश्चन धार्मिको जनो गुरवेऽपृच्छत् । गुरुर्दिनदर्शिनीं दृष्ट्वाऽद्य गुरुवासरोऽस्तीति निश्चित्य च कथितवान् - "अहं भवते गुरुवासरस्य शुभकामना दद्यां तदेतोऽपि वरम्" । ८५

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130