Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 95
________________ (२) आत्मा रक्ष्यः प्रयत्नेन किञ्चिदन्तरात्मनि अवधार्य ईक्षेम । अस्माकमन्तःकरणस्य सहजाभिरुचिविषयत्वेन केन्द्रबिन्दौ किम् ? आत्मा अन्यत्किञ्चिद्वा । अस्मादृशां वाग्व्यवहारयोर्मध्ये कस्य प्रतिबिम्बमुपगूढम् तत्तु न मया पृच्छ्येत किन्तु एतावदेव ज्ञातुं इच्छामि यदुत - अस्मदन्तःकरणे किम् ? अभीप्साया मध्यवर्त्तिरूपतया कस्य वासः ? आत्मद्रव्यस्याऽनात्मद्रव्यस्य वा ? नवरं यथाकामं यस्याऽप्यभिलाषो भवेत् तस्य व्यवहारपथेऽवतारणप्रयासः करणीयः । एतद्विषये नाऽननुमतिः केषाञ्चिदपि । अत्र स्मरणीयं रहस्यमेतद् बहिरात्मदशायां केन्द्रबिन्दुवर्त्तित्वेन सन्ति जगद्वर्त्तिनः सर्वे पदार्थाः । अन्तरात्मदशायाः तु केन्द्रबिन्दौ संरक्षणीय आत्मा । ० ८८

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130