Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
न्यायाधीशः (साक्षिणं) यदा कलहः प्रवर्तमानो भवता दृष्टस्तदा किमर्थं भवान् अपराधिनः सहायतार्थं
न गतः ? साक्षी महोदय ! यदा कलहः प्रवर्तमान आसीत् तदा को वाऽपराधी भविष्यतीति निश्चितं
नाऽऽसीत् !!
(न्यायालये) साक्षिणी मदीयशब्दानां विश्वासो यदि न स्यात् तदा भवतु, मम न काऽपि हानिः । वस्तुतोऽहं
सत्येन वृता। अभिभाषकः एवं, तर्हि भवती विधवा कदाऽभवत् ??
वृद्धो मुल्ला नासीरुद्दीन: सुहृद्-गोष्ठ्यां प्रवर्तमानायां कथितवान् -
"भो ! यदाऽहं विंशतिवयस्क आसं तदा यादृशी दैहिकशक्तिर्मयि विद्यते स्म तादृशी त्वद्याऽपि विद्यते" ।
" नैव स्यात् तथा, भवता सप्रमाणं सिद्धं कर्तव्यं भवद्वचनम्" - इति मित्राण्यवदन् ।
"भोः ! मम गृहे या पेषणी वर्तते तस्या एकं प्रस्तरखण्डमहं विंशतितमे वयस्यपि वोढुं न शक्त आसीत्, इदानीमपि च नैव शक्तः !!
१०८

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130