Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पूर्वमेव कथितं मया, एतत्तीर्थं समस्तप्रदूषणरहितमस्ति, इति । अत्रत्या जनाः परमशान्तिनिमग्नाः सन्ति, यतस्ते प्रकृतिदत्तवातावरणे वसन्ति, प्रकृतिदत्तं शुद्धमाहारमेव भक्षयन्ति, अद्यतनसाधनपिशाचाग्रथिलाश्च सन्ति । एतादृशे तीर्थे वसन्तो वयमपि परमशान्तिरूपाम्भोधौ निमज्जामः । तत एव साहजिकं सत्सुखमनुभूयतेऽस्माभिः । जननीनिभप्रकृत्या अङ्के निर्बन्धं लुण्ठनरूपं परमसुखमप्यनुभूयतेऽत्राऽस्माभिः । यदि त्वमपि परमसुखसहभागी भवितुमिच्छेस्तर्हि त्वरयाऽत्राऽऽगच्छ । प्रकृतिः त्वामाह्वयति, प्रकृतिस्तव स्वागतं कर्तुं प्रयत्नशीलाऽस्ति, प्रकृतिस्तु ते कण्ठे परमसहज-सुखशान्तिवरमालां परिधापयितु मुत्कण्ठिताऽस्ति । चेतन ! आगच्छ, आशु आगच्छ ।
__ अन्ते, यदा यदा त्वच्चित्ते परमशान्ति-सुखस्याऽभिलाषा स्यात्तर्हि अत्राऽऽगच्छेः, किन्तु रूप्यककोटि व्ययकरे स्थाने न गच्छेः, केवलं कान्यपि चिन्तोत्पादकाद्यतनसाधनानि नाऽऽनेतव्यानि, इति सूचयामि । अस्य तीर्थस्य भव्य इतिहासोऽस्ति, तद्विषये भविष्यत्काले लेखिष्यामि । '
८.४

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130