Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पित्रा पृष्टः पुत्रो वदति - पितर् ! तेन व्यापारिणाऽहं वञ्चितः, अद्य वाणिज्ये इयती हानिर्जाता,..... इति । एतच्छ्रुत्वा मनसि दुःखमनेके विकल्पाश्चोद्भवेयुः । अन्यदेशे गच्छन्नपि पिता वाणिज्यं करोति, माता च गृहकार्यं करोत्येव । एवं सति गृहं व्यापारं च मनसा साकं गृहीत्वैव गच्छन् जनः कथं कुत्र च शान्तिमवाप्नुयात् ?
चिन्तय त्वम् ! परदेशे गतो जनः संसर्गशून्योऽस्ति, दुःखस्य निमित्तं न किमप्यस्ति, तथाऽपि तेन जनेनाऽहनिशं गृहसदस्यैः सहैतद्यन्त्रद्वारेण गृह-व्यापारविषयिकी चर्चा क्रियते, ततः संसर्गशून्यः सन्नपि दुःखीभवति । यदि स एतद्यन्त्रग्रहणं विनैव गच्छेत्, अथवा स गृहसभ्यैः सह गृहादिचर्चामेव न कुर्यात् तर्हि न काऽपि पीडा भवेत्, न च दुःखमप्युद्भवेत् । किञ्च, गृहे वाणिज्ये च या काऽपि विपत्तिर्जाता, तां विपदं स जनो दूरीकर्तुं न समर्थोऽस्ति, यदा गृहं प्रत्यागच्छेत्तदैव स किमपि कर्तुं शक्नुयात् । तथाऽप्येतच्चिन्ताजनिकां वार्ता संश्रुत्य स जनो यावत् परदेशं तिष्ठेत् तावद् दुःखीभवेत्, दर्शनीयस्थानेऽटतोऽपि प्रमोदं च कुर्वतोऽपि तस्य मनस्येषा पीडा निरन्तरं कण्टकवद् दुःखीकुर्यादेव । एवं गृहं व्यापारं परिवारजनं च सन्त्यजन्नपि रूप्यककोटिधनव्ययं च प्रकुर्वन्नपि स जनो यदा गृहे प्रतिनिवर्तेत तदाऽतीवाऽशान्तः श्रान्तो दुःख्युद्विग्नश्च भवति । एतत्समस्तदुःखानां कारणमस्ति - एतत् चलदूरवाणीयन्त्रम् ।
बन्धो ! अत्र किं जातम् ? लाभ उत हानिः ?
केवलं हानिरेव जाता । जनोऽतीवाऽशान्तो दुःखी श्रान्तश्च जात एव, किन्तु तेनैतेन सहाऽन्यदपि प्राप्तं यद्, देहव्ययो वाणिज्यव्ययो विशुद्धाहारव्ययः समयव्ययोऽतीव धनव्ययः (वर्षं यावत् परिश्रमकरणेन यद्धनं प्राप्तं तद्धनं दशदिनेषु व्यतीकृतम्) विशेषतो धर्मव्ययश्चेति । किमेषा शान्तिप्राप्तिचेष्टा कथ्यते उत मूर्खचेष्टोच्यते ?
त्वयैवं ज्ञातमेवोपर्युक्तकथनेनैतद् यन्त्रं दुःखानां कारणस्तीति । अद्य जनः क्षणमेकमपि एतद्यन्त्रं विना स्थातुं न शक्तोऽस्ति । पुत्रादिपरिवारं पत्नी वाणिज्यं किङ्करं च विना वसितुं समर्थोऽस्ति, किन्तु नैतद् यन्त्रमृते । मानसेऽनेकशः प्रश्नोऽप्युद्भवति - किं जनो गृहसदस्यानभिलषति उत यन्त्रमेतद् ? इति । जनोऽन्येन सह वार्तालापं कुर्वन्नपि स्वहस्ताद् तद्यन्त्रं न विमुञ्चति, अत्यावश्यकवार्तालापं प्रकुर्वन्नपि स एतद् यन्त्रं दरीदष्टि । यदि निद्रां न प्राप्नुयात्तर्हि जनो दीर्घकालमेतद्यन्त्रद्वारेणाऽनावश्यकं वार्तालापं क्रीडां च कृत्वा समयव्ययं धनहानि च कुर्यात् । अद्य त्वेतादृशी परिस्थितिरुद्भूता यत् - एतद्यन्त्रप्रभावेन जनोऽल्पस्वापी निशाचरश्च सञ्जातोऽस्ति । पुत्रमिव तद् यन्त्रमालिङ्ग्यैव जनो निद्राति । पूर्वं जनः स्वस्वेष्टभगवतां स्मरणं कृत्वैव स्वपिति स्म, तथोपकारिप्रभूनां दर्शनं स्मरणं च कुर्वन्नेव जागति स्म, तत्पश्चादेव सः सर्वमपि व्यवहारं चकार । अद्य तु स्वपनकाले जागरणकाले च जन एतद्यन्त्रस्यैव दर्शनं

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130