Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 88
________________ भोः ! युष्माकं तु का वार्ता करणीयाऽस्ति । जनः स्वयमेव कोलाहलमशान्ति चोत्पादयति, प्रतिदिनमादिनं च तत्रैव रमते, एवं क्षुद्रजन्तुवत् स्वरचितजालेष्वेव बद्धो भवति । तत्पश्चादशान्तः श्रान्तश्च स जनः शान्तिमवाप्तुं माथेरान-पञ्चगीनी-गोवाकेराला-इत्याद्यटनीयस्थानेषु गृहं परिवारं व्यवसायं च विहाय बहुधनव्ययं विधाय च सोल्लासं गच्छति । इदानीं तु इभ्यजनेषु स्वसम्पत्तिप्रदर्शनस्याऽभिलाषा मनस्युच्छलति, ततस्ते जनाः शान्तिप्राप्त्यर्थं होंगकोंग-थाईलेन्ड-दुबई-मलेशिया-सिंगापोर-इत्याद्यपरप्रदेशेषु रूप्यककोटिव्ययं कृत्वा गच्छन्ति । आश्चर्यं त्वेतद्, यः शान्त्यर्थं परदेशे गतः, स जन एव ततो यदि प्रतिनिवर्तेत तदाऽतीवाऽशान्तः श्रान्तश्च भवेत्, इति । एतत्कथं शक्यम् ? अद्य सर्वेऽपि जीवाः शान्ति सुखं चेच्छन्ति, तदर्थं ते सदा प्रयतन्ते, तथाऽपि जीवैरशान्तिर्दुःखं चैव प्राप्यते । उक्तं च सर्वत्र सर्वस्य सदा प्रवृत्तिर्दुःखस्य नाशाय सुखस्य हेतोः । . तथाऽपि दुःखं न विनाशमेति, सुखं न कस्याऽपि भजेत् स्थिरत्वम् ॥ अत्राऽप्येषैव स्थितिवर्तते । जनो दुःखमशान्ति चाऽपाकर्तुमेव सर्वमपि त्यक्त्वाऽपरदेशे गच्छति, तथाऽपि दुःखमशान्ति चैव जनोऽवाप्नोति । 'कथमि'ति प्रश्नो विमर्शनीयोऽस्ति । ___ जनः परदेशे गच्छन्नपि गृहादिचिन्तां न विजहाति । जीवः कायेन गृहादिकं त्यक्तवान्, किन्तु न मनसा । एवमशान्तिप्रोत्पादकानि निमित्तानि सङ्ग्रह्मैव सोऽन्यत्र गतवान् । ततस्स जनः कुत्राऽपि गच्छेत्, तत्र सोऽशान्तिमेव प्राप्नुयात्, इति निश्चितं ज्ञेयम् । अशान्तेः कारणमस्ति चिन्ता । चिन्तामात्रं दुःखस्याऽशान्तेश्चोत्पादकमस्ति, आस्तां सा चिन्ता काऽपि विषयसम्बन्धिनी स्यात् । इदानींतनकाले मनुष्यजीवने चिन्तोत्पादनस्य मुख्य कारणमस्ति - चलदूरवाणी यन्त्रम् (Mobile) । सर्वचिन्तामुक्तानां जीवानामप्येतद् यन्त्रमकारणं दुःखायते । चिन्तामहासागरे एतद्यन्त्रं जनान् क्षिपन्ति । उदाहरणेन दर्शयामि - बन्धो ! सांसारिकक्लेश-चिन्ताक्रान्तो जनो मनसः शान्त्यर्थं गृहादिकं सर्वमपि त्यक्त्वा 'मलेशिया' इतिस्थाने गतवान् । एष जीवो यावद्गन्तव्यस्थानं प्राप्नुयात् तावदेवैतद्यन्त्रद्वारेण गृहसदस्यैः सह चर्चा कुर्यात् । तत्पश्चात् प्रतिदिनं वारद्वयं तैः सह गृहादिविषयकं वार्तालापं करोत्येष जनः । तदा तैः परस्परं को वार्तालापः क्रियते ? मातर् ! भ्रातृजाययैवं कृतं, एवं च कथितम् । भ्रात्रा मया सहैतादृशो व्यवहारोऽकारि । भ्रातृजायाया जननी आगतवत्यासीत्, सा एवमेवं वदति स्म, ........इति ।

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130