Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 45
________________ - निजप्रभुत्वतः । “वशाऽवन्ध्यासुतायोषास्त्रीगवीकरिणीषु च । त्रिष्वायत्ते क्लीबमायत्तत्वे चेच्छाप्रभुत्वयोः" इति मेदिनी । विहितम् - कृतम् । प्रशान्तम् - अत्यन्त-निर्वृतम् । स्वान्तम् - हृदयम् । “चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः" इत्यमरः । विषये - रूपरसगन्धस्पर्शात्मनि । "रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी" इत्यमरः । स्रक्चन्दनवनितादिष्विति यावत् । न - नहि । धृतम् - स्थापितम् । नु - वितर्के। “नु वितर्कापमानयोः" इति मेदिनी । (भवतः) काचित् - अनिर्वचनीया । दृढता - आत्मिकबल शालिता । "दृढः स्थूलबलयोः" इति भगवान् पाणिनिः । शब्दादितः - शब्दप्रमुखविषयात् । अपि - खलु । अचलिता - चलिता नास्तीत्यर्थः । दृष्टान्तेन समर्थयति - किं मन्दराद्रित्यादिना - मन्दराद्रि शिखरम् - मन्दराचलशृङ्गम् । कदाचित् - जातुचित् । चलितम् - प्रचलितं कम्पितमिति यावत् । किम् ? अपि तु नैवेत्यर्थः । दृष्टान्तालङ्कारः । “दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्" इति काव्यप्रकाशे तल्लक्षणस्मरणात् । सद्बुद्धिवर्तिरभितो हृदयान्तराल गाढान्धकारहरणप्रवणोऽकरालः । स्नेहेन शास्त्ररुचिना रुचिरं चकास द्दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ अन्वयः नाथ !, सद्बुद्धिवर्तिः, अभितः, हृदयान्तराल गाढान्धकारहरणप्रवणः, अकरालः, शास्त्ररुचिना, स्नेहेन, रुचिरम्, चकासत्, जगत्प्रकाशः, अपरः, दीपः, असि ॥१६॥ वृत्तिः नाथ ! -नाथतीष्टे इति नाथ ईशिता तदामन्त्रणे तथा । “यतीन्द्र-स्वामीनाथार्थाः प्रभुर्भतेश्वरो विभुः । ईशितेनो नायकाच" ३।२२।। इत्यभिधानचिन्तामणिः । सद्बुद्धिवर्तिः - सद्बुद्धिः समीचीनप्रज्ञैव वतिर्दशा यस्य स तथा । अभितः - समन्तात् । हृदयान्तरालगाढान्धकारहरणप्रवणः - हृदयस्य मनसोऽन्तरालमभ्यन्तरं हृदयान्तरालन्तत्र गाढोऽतिशयितोऽन्धकारोऽज्ञानतमस्तस्य हरणे विनाशने प्रवणस्त त्परस्तथा । अकरालः - अभयानकः । शास्त्ररुचिना - शास्त्रेषु व्याकरणन्यायार्हतागमेषु रुचिर्ज्ञानाभिलाष: शास्त्ररुचिस्तया तथा । स्नेहेन - तैलेन । शास्त्रज्ञानाभिलाषात्मतैलेनेति व्यस्तरूपकार्थः । रुचिरम् - मनोहरम् । चकासत् - द्योतमानम् । चकासृ दीप्तौ इत्यस्माद्धातोः शतृप्रत्यये "नाऽभ्यस्नाच्छतुः" इति निषेधात् "उगिदचां सर्वनामस्थानेऽधातोः" इत्यनेन नुमागमो न भवतीति वेदनीयम् । जगत्प्रकाशः - जगतां स्वर्ग-मर्त्य-पातालात्मभुवनानां प्रकाशो यस्मात् स तथा । अपरः - अन्यः, प्रसिद्धविलक्षण इति यावत् । दीपः - प्रदीपः । असि - भवसि । अत्र रूपकालङ्कारः । रूपकम् - उपमेयतावच्छेदक-पुरस्कारेणोपमेये शब्दान्निश्चीयमानमुपमानतादात्म्यं रूपकम्, तदेवोपस्कारकत्वविशिष्टमलङ्कारः । उपमेयतावच्छेदकपुरस्कारेणेति विशेषणात् अपहनुतिभ्रान्तिमदतिशयोक्तिनिदर्शनायां निरासः, अपहनुतौ स्वेच्छया निषिध्यमानत्वात् भ्रान्तिमति च तज्जनकदोषेणैव ३८

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130