Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
त्वत्कीर्तनात् - भवदीयाभिधानकर्मकभूयोभूयःसमुच्चारणात् । आशु - शीघ्रम् । "लघु क्षिप्रमरं द्रुतम् । सत्वरं चपलं तूर्णमविलम्बितमाशु चे"त्यमरः । भिदाम् - भेदम्, विदीर्णताम्, विनाशमिति यावत् । उपैति - प्राप्नोति । बिम्बप्रतिबिम्बभावापन्नसाधारणधर्मकोपमालङ्कारः ॥३८।।
श्रीजैनशासनवरोत्तमजात्यवंशा
ज्ञानक्रियात्मशुचिपक्षयुगात्महंसाः । स्वात्मानुरूपमधु मानसमाश्रयन्ते
त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥३९॥ अन्वयः श्रीजैनशासनवरोत्तमजात्यवंशाः, ज्ञानक्रियात्मशुचिपक्षयुगात्महंसाः, त्वत्पादपङ्कजवनायिणः, स्वात्मानुरूपमधु, मानसम्, आश्रयन्ते, ॥३९॥
वृत्तिः श्रीजैनशासनवरोत्तमजात्यवंशाः - श्रीजैनशासनं सुन्दरपरमार्हतागमसाम्राज्यमेव वरः श्रेष्ठ उत्तमः समीचीनो जात्यो विशिष्टजातीयो - वंशोऽन्ववायो येषान्ते तथा । "वंशः पुंसि कुले वेणौ पृष्ठावयववर्गयोः" इति मेदिनी । ज्ञानक्रियात्मशुचिपक्षयुगात्महंसाः - ज्ञानञ्च क्रिया च ज्ञानक्रिये त आत्मा स्वरूपं यस्य तत्, शुचिपक्षयुगलं-श्वेतपत्रद्वितयं येषान्ते आत्मान एव हंसा: मरालास्तथा । त्वत्पादपङ्कज वनाश्रयिणः - त्वत्पादौ भवदीयचरणावेव पङ्कजे त्वत्पादपङ्कजे तयोर्वनं त्वत्पाद एव पङ्कजवनम्, त्वत्पाद पङ्कजवनम्, तदाश्रयन्ते तच्छीलास्तथा । "सुप्यजातौ णिनिस्ताच्छीलो" इति णिनिः । सन्तः । स्वात्मानु रूपमधु - स्वेच्छानुसारमकरन्दम् । “मधु पुष्परसे क्षौद्रे मद्ये ना च मधुद्रुमे" इति मेदिनी । मानसम् - मानसं चित्तमेव तदाख्यं वा सरोवरम् । “मानसं सरसि स्वान्ते" इत्यमरः । आश्रयन्ते - अवलम्बन्ते । अत्र परम्परितरूपकालङ्कारः । यत्र चाऽऽरोप एवाऽऽरोपान्तरस्य निमित्तं तत्परम्परितम् ॥३९।।
अध्यात्मवर्त्मनि गता मुनयोऽल्पसत्त्वा
दुःश्वापदादिपरिरुद्धपथा अतत्त्वाः । भीति समाधिभरभङ्गकरीं त्यजन्ति
त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ अन्वयः अतत्त्वाः, दुःश्वापदादिपरिरुद्धपथाः, अल्पसत्त्वाः, मुनयः, भवतः, स्मरणात्, अध्यात्मवर्त्मनि, गताः, समाधिभरभङ्गकरीम्, भीतिम्, त्यजन्ति, त्रासम्, विहाय, व्रजन्ति ॥४०॥
वृत्तिः अतत्त्वाः - नास्ति तत्त्वं ब्रह्मयाथार्थ्यं वा येषान्ते तथा । "तत्त्वं ब्रह्मणि याथार्थ्य" इत्यमरः । दुःश्वापदादिपरिरुद्धपथाः - दुष्टाश्च ते श्वापदादयो हिंस्रव्यालादयोः दुःश्वापदादयस्तैः परि सर्वतोभावेन रुद्धोऽवरुद्धोऽवष्टब्ध इति यावत् पन्था मार्गो येषान्ते तथा। "हिंस्रेऽस्मिन् व्यालः श्वापदोऽपि च" ४।२८२।। इत्यभिधानचिन्तामणिः । अल्पसत्त्वाः - अल्पं मन्दं सत्त्वं बलं येषान्ते तथा । "सत्त्वं गुणे पिशाचादौ

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130