Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 80
________________ प्रदत्ताः सन्ति । एतादृश्या विश्वसन्माननीययाः फ्रान्सदेशीयविदुष्याः सन्मानं भारतदेशे जैनाचार्यप्रस्थापितसंस्थया जैनाचार्यनिश्रायां भवेत्, एतत्तु न केवलं जैनानाम्, अपि तु समग्रभारतदेशस्याऽऽर्यसंस्कृतेश्च गौरवप्रदा घटनाऽस्ति । चन्द्रकप्रदानं तु अनेकाभिः संस्थाभिः क्रियते, किन्तु जैनाचार्यप्रेरणयाऽन्यदेशीयअन्यमतानुयायिविदुष्याः सन्मानं विधीयते, एतत्तु महदाश्चर्यमेवाऽस्ति ।। सम्प्रदायनिरपेक्षताया इतोऽधिकं श्रेष्ठमुदाहरणं किं स्यात् ? सम्प्रदायनिरपेक्षतायाश्चर्चा सर्वधर्ममान्यसर्वधर्मगुरुभिरग्रणीजनै राजसिंहासनस्थितै राजनेतृभिश्चोच्चैराराटिं कुर्वद्भिः सदा विधीयते, किन्तु कैः क्रियते आचरणम् ? अन्येषां निन्दार्थं स्वप्रशंसार्थं च न लिखामि, अपि तु जैनसमाजो जैनसाधुश्च कीदृशीमुदारदृष्टिं समाचरतीति जनसमाजस्य ज्ञापनार्थमेव लिखाम्यहम् । अद्य सर्वत्र 'जैनाः सङ्कुचिता रूढिवादिनश्च सन्ति, ते जैनमतं विना नाऽन्यत् किमपि स्वीकुर्वन्ती'ति प्रबलमताग्रहोऽस्ति । तेषां मताग्रहिनामेषोत्तररूपा घटनाऽस्ति । एतैर्गुरुभिरेतादृशं नैकमेव कार्यं कृतं किन्तु अद्यावधि एतादृशान्यनेकानि कार्याणि कृतानि सन्ति । तान्यत्र वर्णयामि । ____ अद्य गूर्जरराज्यं संस्कारदृष्ट्या नीतिदृष्ट्या चेति सर्वरीत्याऽतीव समृद्धमस्ति । अस्माकं समीपेऽद्य स्वकीयं व्याकरणमस्ति । एतस्याः सर्वसमृद्धेः कारणमस्ति - एष गुरुः कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यः । एनं गुरुं विना स्वतन्त्रास्तित्वधारकस्य गूर्जरराज्यस्य कल्पनैवाऽशक्याऽस्ति । तद्गुरोर्नवमजन्मशताब्दीमुपलक्ष्य शासनसम्राट्-तपागच्छाधिपति-श्रीविजयनेमिसूरीश्वर-प्रशिष्यश्रीविजयसूर्योदयसूरीश्वरस्याऽऽशिषा, तच्छिष्यश्रीविजयशीलचन्द्रसूरेः सत्प्रेरणया चैषा कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यस्मृतिशिक्षणसंस्कारनिधिट्रस्टेतिनाम्नी संस्था प्रस्थापिता । एतैर्गुरुवर्यैः स्वजीवने श्रीमहावीरस्वामिनोऽनेकान्तवादसिद्धान्तश्चरितार्थीकृतोऽस्ति । एते गुरवः सम्प्रदायनिरपेक्षमानसं संसेवन्ते । तत एवैतादृशं कार्यं कर्तुं समर्था भवन्त्येते गुरवः । गुरुवर्यैः संस्थापितायाः संस्थाया शुभाशयाः सम्यगनुसरणीयाः सन्ति । • कस्या अपि भाषायाः सत्साहित्यस्य सेवां यः कोऽपि कुर्यात्तस्य सन्मानं करणीयम् । आस्तां स कस्याऽपि अन्यधर्मस्याऽनुयायी स्यात् । एतया संस्थयाऽद्यावधि त्रयोदशानां साक्षरजनानां सन्मानमकारि । तत्र - १. अध्यापकः श्रीशान्तिलाल गुलाबचन्द शाह-महोदयः २. पं. श्रीलक्ष्मणभाई हीरालाल भोजक-महोदयः ३. पं. श्रीदलसुखभाई मालवणिया-महोदयः ४. डो. हरिवल्लभ भायाणी-महोदयः ५. डो. उमाकान्त पी. शाह-महोदयः ७ः

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130