Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
६. डो. मधुसूदन ढांकी-महोदयः ७. डो. नगीनदास जे. शाह-महोदयः ८. डो. सत्यरञ्जन बेनर्जी-महोदयः ९. श्रीजयन्तभाई कोठारी-महोदयः १०. श्रीकनुभाई जानी-महोदयः ११. श्रीलाभशङ्कर पुरोहित-महोदयः १२. श्रीहसुभाई याज्ञिक-महोदयः १३. डो. वसंतभाई परीख-महोदयः इदानीं श्रीनलिनी-बलबीरविदुष्याः सन्मानं कृतम् । • उत्तमानां साहित्यविषयकपुस्तकानां प्रकाशनं करणीयम् ।
अद्यावधि विविधासु भाषास्वनेके ग्रन्थाः प्रकाशिताः । • राष्ट्रीयकक्षायाः परिसंवादा आयोजनीयाः ।
विविधविषयमनुलक्ष्याऽद्यावधि एतया संस्थया बहवः परिसंवादा आयोजिताः सन्ति । तत्राऽपि वटपद्र(वडोदरा)नगरे, महुवा(लघुकश्मीर)पत्तने तथा गोधरानगरे द्विदिवसीयपरिसंवादा संयोजिता आसन् । तदा जैनाः शैवाः पुष्टिसाम्प्रदायिकाः इस्लाममतीयाः ख्रिस्तीयाः पारसीयाः आदिवासिनश्च विद्वज्जना आगत्य स्व-स्वधर्मविषयकं साहित्यं पठन्ति स्म । तदुपरि जैनाचार्यनिश्रायां मुक्तमनसा चर्चामपि तत्रत्या जना अकुर्वन् । आश्चर्यं त्वेतद्, आदिवासिसमाजस्य मुख्यधर्मगुरुस्तत्र जैनस्थानके बहिः कुत्राऽपि न क्रियमाणं गुह्यं तत्पट्टविधि सभासमक्षं दर्शयति स्म । __ भोः ! एतादृशं क्रान्तिकरं सम्प्रदायनिरपेक्षं कार्यं नाऽन्यः, किन्तु जैनाचार्येण श्रीशीलचन्द्रसूरिणैव कृतमासीत् । तथा परिसंवादस्य सर्वोऽपि यातायातवेतन-पुरस्कार-भोजनादिव्ययो जैनश्रावकैरेव कृत आसीत्, एतन्न कदाऽपि विस्मर्तव्यम् । तत्पश्चात् तैविद्वज्जनैः वाचितानां लेखानां पुस्तकमपि प्रकाशितमस्ति, तेन सूरिणैव ।
महुवापत्तने आयोजितपरिसंवादे आगतेन पूज्यश्रीमोरारिबापु-महात्मना कथितम् - जैनस्थानके एष आयोजित: परिसंवादः सम्प्रदायनिरपेक्षतायाः श्रेष्ठमुदाहरणमस्ति । एतदायोजनं महत् क्रान्तिकरमस्ति । अस्याऽनुकरणं सर्वधर्मगुरुभिः करणीयमस्ति, इति ।
किमेषा उदारदृष्टिः सम्प्रदायनिरपेक्षता च कथ्यते न वा ?
पूर्वकालत एव जैनसमाज उदारः सम्प्रदायनिरपेक्षश्चाऽऽसीत्, इति कथने नाऽतिशयोक्तिरस्ति । दर्शयामि अहम् -
७४

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130