Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 85
________________ अथ, परदेशीयविदुषी सन्मानिता, एतावन्मात्रेण कार्यं न समाप्ति प्रापत् । एतद्घटनातो बोधो ग्रहणीयोऽस्ति । एतस्या विदुष्या ज्ञाननिष्ठाऽतीवाऽनुमोदनीयाऽनुकरणीया चाऽस्ति ।। ___ अस्या मातृभाषाऽस्ति फ्रेन्चभाषा । सा विदुषी नाऽन्यां कामपि भाषां जानाति स्म । तथाऽपि ज्ञानं प्रति विशेषरुचिरासीत् । ततो ज्ञानप्राप्त्यर्थं सर्वत्राऽटन्ति स्म । यदा गूर्जरराज्ये साऽऽगतवती तदा जैनागमं प्रति विशेषतो रुचिः सञ्जाता । ततस्तदभ्यासार्थं गूर्जरभाषा-हिन्दीभाषा-संस्कृतभाषा-प्राकृतभाषा च शिक्षिता । तत्साहाय्येन बौद्ध-जैनशास्त्राणां संशोधनादिकं कार्यं कृतम् । तन्मनसि ज्ञानप्राप्तेरभिलाषा कीदृशी स्यादित्यत्र ज्ञेयमस्ति । कथंरीत्या कियता कालेन च तया विदुष्यैता भाषाः शिक्षिताः स्युरिति प्रश्नोऽस्ति । एका परदेशी विदुषी अस्माकं विविधा भाषा: शिक्षयति, ततः सन्माननीयं कार्यमपि विधातुं शक्ता जाता सा । वयमत्रैव वसामः, अस्माकं सर्वा एता भाषाः परिचिताः सन्ति, ता भाषा: शिक्षयितुमनेके तत्तद्विषयज्ञाः पण्डिता अपि उपलब्धा भवन्ति । तथाऽप्यस्माभिः किं विशिष्टं ज्ञानक्षेत्रे कार्यं कृतम् ? कानि शास्त्राणि पठितानि ? का भाषा शिक्षिता ? जैनैरागमविषये हिन्दुभिश्च वैदिकसाहित्ये किं विशिष्टं कार्यं कृतम् ? प्रश्ना अनुत्तररूपा एव भवेयुः, इति जानामि । एष चन्द्रकप्रदानमहोत्सवः समष्टिगतदृष्ट्या गौरवप्रदोऽस्ति, किन्तु व्यक्तिगतदृष्ट्याऽस्माकं कृते लज्जाकारकोऽस्ति । यतोऽस्माभिरद्यावधि न तादृशं विशिष्टमेकमपि कार्यं कृतमस्ति । अन्ते, सर्वे ज्ञाननिष्ठावन्तो भवेयुरित्याशासे । ७८

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130