Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 84
________________ __ अन्यान्यपि स्थानान्येतादृशान्यद्य विद्यन्ते । अत एव कथयामि - पूर्वकालत आरभ्याऽद्यावधि जैनैर्न सङ्कचितता साम्प्रदायिकदृष्टिश्च प्रदर्शिता । सर्वैर्धर्मानुयायिभिः स्वस्वमतानुसारी प्ररूपणा क्रियते, अत्र न काऽपि बाधा, किन्त्वन्यमतस्याऽवहेलनं न करणीयम् । यदाऽन्यमतस्याऽवहेलनं क्रियते तदा सम्प्रदायनिरपेक्षता कथं सम्भाव्यते ? अद्य सर्वेऽपि मतानुयायिनः स्वमतं प्रशंसन्ते, अन्यमतं च निन्दन्ति । तथाऽपि जैना एव सङ्कुचिताः सम्प्रदायबद्धाश्चोच्यन्ते, नाऽन्ये । एष न्यायः कथं सम्भाव्यते ?' जिनशासने न केषाञ्चिदपि जनानां निषेधः कृतोऽस्ति । स्वयं त्रैशलेयश्रीमहावीरविभोर्देशनाकाले देवै रचिते समवसरणे ३६३पाखण्डिजना आगच्छन्ति स्म, न च निरुद्धाः केनाऽपि । तदाऽनेकैर्ब्राह्मणैरन्यज्ञातीयजनैश्च प्रव्रज्या अङ्गीकृताः । अन्ते, आत्मकल्याणं विधाय तेऽपि शिवसुखमाप्ता आसन् । किञ्च, जैनैर्बहुभिर्महापुरुषै रचितेषु नैकेषु संस्कृत-प्राकृतशास्त्रग्रन्थेषु गूर्जरपदेषु चैतादृशानि विविधानि पदानि प्राप्यन्ते, यत्र - हरो, ब्रह्मा, विष्णुः, बुद्धो जिनो वा ये केऽपि स्युः, यदि ते राग-द्वेषविहीनाः स्युस्तर्हि ते सर्वेऽप्यवश्यंतया नमस्करणीयाः - वन्दनीयाश्चेति कथितमस्ति । • कथमेतावत्युदारताऽपि सङ्कुचिततारूपेण कथ्यते ? वस्तुतः सत्यं सत्यमेव भवति । सत्यं न कदाऽपि निहोतुं शक्यमस्ति । उच्चैराराटि कुर्वद्भिर्बहुजनैः संमीलितैरपि मृषा न कदाऽपि सत्यरूपेण भवितुं शक्यमस्ति । सत्यं तु सुवर्णमिव सर्वकालीनं सत्यमेव वर्तते । सुवर्णस्योपर्यनेकशो लेपकरणेनाऽपि यथा तदस्तित्वं न कदाऽपि नष्टं भवति तथैवाऽनेकैः असत्यैरपि सत्यं नाशयितुं न शक्यते । जैना उदाराः सम्प्रदायनिरपेक्षाश्च सन्ति, इति सर्वकालीनं सत्यमस्ति, तन्न कोऽपि निनोतुं शक्नोति । एवं सर्वकालीनं सत्यमपि असत्यरूपेण कथनीयं तत्तु असदाग्रह उच्यते । किन्तु यत्र यथार्थं ज्ञानं (स्पष्ट)विहितश्च बोधोऽस्ति तत्र न कदाऽपि दुराग्रहः असदाग्रहश्च भवितुं शक्तोऽस्ति । ज्ञानस्यैतदेव फलमस्ति यद्, ज्ञानं दुराग्रहमसदाग्रहं च सन्त्याज्य सदाग्रहं प्रति प्रेरयति, ज्ञानं क्लेशं सङ्घर्षं चाऽपास्य समाधान ददाति, ज्ञानं विभाजनवृत्तिं दूरीकृत्य समन्वयं प्रयच्छति, ज्ञानं सङ्कुचिततां विहायौदार्यं प्रकटयति, ज्ञानं च राग-द्वेषौ अपाकृत्य समत्वमर्पयति । यस्य हृदि यथार्थं ज्ञानं परिणतं स कदाऽपि न सङ्कुचितो भवति, सदोदार एव भवति । यत्र ज्ञाने सत्यपि सङ्कुचितता भवेत् तत्र न ज्ञानं किन्तु ज्ञानाभास एव ज्ञेयः । - एष चन्द्रकप्रदानमहोत्सवो जातः स तु विशेषतो ज्ञानाविष्कारोऽस्ति । यत्र यत्र ज्ञानाविष्कारो भवति तत्र गौरवं वर्धते एव, यत एष ज्ञानाविष्कारो यस्य कस्याऽपि यत् शुद्धं सद् निर्मलं चाऽस्ति तद् गवेषयित्वा स्वीकरोति । यत्र शुद्धस्य सतश्चाऽङ्गीकारोऽस्ति तत्र गौरवादृते किं भवेत् ? एवं फ्रान्सदेशीयविदुष्याः कारितं सन्मानं, न केवलं जैनानामपि तु समग्रभारतीयजनानां गौरवमस्ति, इति निश्चितं ज्ञेयम् । -७७

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130