Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 82
________________ • अद्य भारते परदेशे चाऽनेकेषु नगरेषु जैनमतानुयायिभिरन्यधर्ममतानुयायिभिश्च संचालिता बहवः पुस्तकालया विद्यन्ते । तत्र जैनभाण्डागारेषु जैनपुस्तकैः सह न्याय-बौद्ध-चार्वाक-पातञ्जल-मीमांसकवेदान्त-साङ्ख्यादीनां सर्वेषां मतानां विविधविषयानां पुस्तकानि अद्याऽप्युपलब्धानि भवन्ति । तथैव तत्तद्दर्शनविषयसम्बन्धिंन्यः प्राचीना हस्तलिखितप्रतयो जैनभाण्डागारेष्वद्याऽपि प्राप्यन्ते । ता अपि सुचारुस्थित्यां प्राप्यन्ते । ___ अथ अन्यधर्मानुयायिभिः संचालितेषु पुस्तकालयेषु किं जैनमतसम्बन्धिन्यः प्राचीनप्रतयः पुस्तकानि च अवाप्यन्ते ? भोः ! अन्यत्र तु जैनप्रती: जना नाशयन्ति स्म । • जैनपुस्तकालयेषु परधर्ममान्यमन्दिराणां विशिष्टचित्र-कला-शिल्पादीनां पुस्तकान्यपि संगृह्यन्ते । • पूर्वकालीना जैनाचार्याः सर्वदर्शनसाहित्यमधीयते स्म । सा परम्पराऽद्यपर्यन्तं वर्तते । अद्याऽपि प्रायः सर्वेऽपि जैनसाधवो दुराग्रहं विमुच्य मुक्तमनसाऽन्यदर्शनीयानि शास्त्राणि तत्तद्दर्शनविदां पण्डितानां समीपे पठन्ति । तथैव तेन सह तुलनात्मकाभ्यासमपि कुर्वन्ति जैनमुनयः । अथ कोऽन्यमतावलम्बी साधुजैनग्रन्थान् अधीते ? जैनदर्शनाभ्यासार्थं जैनपण्डितान् के आह्वयन्ति ? • अद्याऽपि जैनमुनयोऽन्यदर्शनीयानि विविधशास्त्राणि प्रकाशयन्ति । वदतु ! क उदारः? को वा संकुचितः ? पूर्वकालतो जैनसमाजः संप्रदायनिरपेक्षोऽस्ति । वैक्रमीये द्वादशे शतके कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यो जातः । विश्वविख्यातेनैतेन सूरिणा जिनशासनस्योपरि महानुपकारः कृतोऽस्ति । एतेन सूरिणा चौलुक्यवंशीयौ सिद्धराजजयसिंहः कुमारपालश्चेति द्वौ राजानौ प्रतिबोधितौ स्तः । प्रतिबोधिताभ्यामेताभ्यां राजभ्यां गूर्जरराज्यस्य समृद्ध्यर्थं शान्त्यर्थं च बहूनि सत्कार्याणि कारितानि सन्ति तेन सूरिणा । __गूर्जरराज्ये हिन्दुजनानां पवित्रं विश्वप्रसिद्धं सोमनाथमहादेवमन्दिरमस्ति । तन्मन्दिरं तत्तत्काले इस्लाममतीयशासकैरनेकशो लुण्टितं नष्टं च । कुमारपालराजस्य शासनकाले कृतजीर्णोद्धारस्य महादेव मन्दिरस्य प्रतिष्ठाकालः आगतः । तदा राज्ञा तत्प्रतिष्ठामहोत्सवे आगन्तुं श्रीहेमचन्द्राचार्यसूरीश्वराया-ऽऽमन्त्रणं प्रदत्तम् । सूरिणा स्वीकृतमपि । प्रतिष्ठाकाले स्वयं स सूरीश्वरस्तत्राऽऽगतवान् । असङ्ख्यजनानां मध्ये तेन सूरिणा सोमनाथमहादेवस्य प्रतिष्ठा कृता, स्तुतिरपि च कृता । प्रशान्तं दर्शनं यस्य, सर्वभूताभयप्रदम् । माङ्गल्यं च प्रशस्तं च, शिवस्तेन विभाव्यते । महत्त्वादीश्वरत्वाच्च, यो महेश्वरतां गतः । राय-द्वेषविनिर्मुक्तं, वन्देऽहं तं महेश्वरम् ॥ . ७५

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130