Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 78
________________ चाऽपि स्वतः प्रामाण्यज्ञप्तिस्तैस्तत्राऽनुमोदिताऽस्ति । अत एषु स्थलेषु स्वतोऽन्यत्र च परतः प्रामाण्यग्रह इति तेषां मतं परिज्ञायते । बौद्धैः प्राचीनं स्वमतं त्यक्त्वा कृतेऽनियमितपक्षस्य स्वीकारे प्रथमत एवाऽनियमित पक्षप्रतिपादकस्याऽऽर्हतमतस्य प्रभावः परिलक्ष्यते । अधुनाऽत्र जैनमतविचारणा समाद्रियते । प्रामाण्यवादविषयकस्य जैनमन्तव्यस्य सुस्पष्टं निरूपणं प्रमाणनयतत्त्वालोके समुपलभ्यते "तदुभयमुत्पत्तौ परत एव ज्ञप्तौ तु स्वतः परतश्च ।” (१.२१) अस्य विवरणं स्याद्वादरत्नाकरव्याख्यायामित्थं दृश्यते - "ज्ञानस्य प्रामाण्यमप्रामाण्यं च द्वितयमपि ज्ञानकारणगतगुण-दोषरूपं परमपेक्ष्योत्पद्यते । निश्चीयते त्वभ्यासदशायां स्वतोऽनभ्यासदशायां तु परतः" इति । अस्मिन् मते प्रामाण्यनिश्चय एव प्रवृत्तिजनक इत्येकान्तो नाऽस्ति । अनभ्यासदशायां प्रामाण्यसन्देहादपि प्रवृत्तिस्तत्साफल्यवैफल्याभ्यां प्रामाण्या - ऽप्रामाण्यनिश्चयश्च स्वीक्रियेते अत्र | वस्तुतः प्रामाण्या-ऽप्रामाण्यनिश्चयेऽनेकान्तोऽयमनुभवसिद्धः । क्वचिद् वयं स्वत एव ज्ञानस्वरूपं निश्चिनुमः क्वचिच्च प्रवृत्तेः फलाधारेणेति को वा निषेद्धुमर्हति ? अनुभवसिद्धं सत्यमिदमुपेक्ष्याऽन्यतरपक्षस्याऽऽग्रहस्तु त्याज्य एव । स्वतः प्रामाण्यग्रहणस्यैकान्तेऽनभ्यासदशोत्पन्नज्ञाने प्रामाण्यसंशयो न घटते, परतस्त्वेकान्ते चाऽभ्यासदशोत्पन्नज्ञाने प्रामाण्यस्य स्वतोऽनुभूतेरसम्भवः । दोषयोरनयोर्निवारणार्थं क्रमशः स्वतःप्रामाण्यवादिभिः कृतः 'दोषाभावे सतीति परिष्कारः, परतः प्रामाण्यवादिभिश्चाऽभ्यस्तस्थले प्रवृत्तेर्विनैव स्वतोऽनुमितेः स्वीकार:, 'घट्टकुट्यां प्रभात' मिति न्यायेन प्रामाण्यग्रहणेऽनेकान्तमेव समर्थयतः । अत्रेदमपि ध्येयम् - स्वतःप्रामाण्यपक्षधरैर्मीमांसकादिभिः परतः प्रामाण्यवादिभिर्नैयायिकैश्च प्रामाण्यग्रहणे मिथो विपक्षत्वेऽपि, अप्रामाण्यग्रहणे तु परतस्त्वमेवैकान्तेनाऽङ्गीकृतम् । स्याद्वादिनस्त्वत्राऽपि युक्तिपुरस्कृतमनुभवसिद्धं चाऽनेकान्तमुररीकृतवन्तः । अर्थात् तैरप्रामाण्यस्याऽप्यभ्यासदशायां स्वतो ऽनभ्यासदशायां च परतो ज्ञप्तिः स्वीकृतेति । प्रामाण्यवादस्य चर्चायामिदं स्मर्तव्यं यत् तत्तद्दर्शनस्य सम्मतेषु सर्वेष्वपि प्रमाणेषु तत्तद्दर्शनेनाऽङ्गीकृत: स्वत:पक्षः परतःपक्षो वा सम्बध्यते, तथाऽपि प्रामाण्यवादस्तु प्रायः प्रत्यक्षप्रमाणे एव केन्द्रितो भवति । अत्र चैवं स्पष्टीकुर्वन्ति परमगुरवः श्रीविजयनेमिसूरयः स्वप्रणीते सन्मतितर्कवृत्तिविवरणे - " यद्यपि प्रमामात्रस्यैव प्रामाण्यमुत्पत्तौ स्वतः परतो वेति विचार्यते । तत्र प्रत्यक्षप्रमाणमधिकृत्य गुणसाधनतद्बाधनप्रकारो नाऽतिसामञ्जस्यमञ्चति । तथापि शिष्यबुद्धिसौकर्याय प्रत्यक्षादिप्रामाण्यविशेषमाश्रित्य द्विचार आदृतः । विशेषे स्वतस्त्व - परतस्त्वान्यतरसिद्धौ तन्न्यायेन सामान्येऽपि तदुपसंहारः कर्तुं शक्य इत्यभिप्राय:..." इति । इतो विशेषजिज्ञासुभिः सन्मतितर्कवृत्तिगत - प्रामाण्यवादचर्चाऽवलोकनीया । ७१

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130