Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 77
________________ 'शक्तयश्च सर्वभावानां स्वत एव भवन्ती'ति मीमांसकानां प्ररूपणायाः प्रतिवादे नैयायिकाः कथयन्ति यत् तत्तत्पदार्थे तत्तच्छक्तेर्नियम एव सूचयति शक्तेः कारणसापेक्षत्वम् । शक्तीनां स्वतस्त्वे तु सर्वत्राऽपि सर्वा एव शक्तयः सम्भवेयुरित्यनायत्या शक्तिरूपं प्रामाण्यमपि स्वोत्पत्तौ कारणसापेक्षमङ्गीकर्तव्यम् । तथा च तत् परत एव । किञ्च, अप्रामाण्यमपि भ्रमात्मकज्ञानगता पदार्थस्याऽयथावस्थितबोधजनिका शक्तिरेव । शक्तीनां स्वतस्त्वमनने तदपि स्वत एव स्यात् । न च तद् मीमांसकादिस्वतःप्रामाण्यवादिनां सम्मतमिति, अप्रामाण्यवत् प्रामाण्यस्य शक्तिरूपत्वेऽपि परतस्त्वमेवाऽभ्युपगन्तव्यमिति । इदानीं प्रामाण्या-ऽप्रामाण्ययोर्शप्तौ परतस्त्वं चिन्त्यते । अस्य भावार्थस्तु ज्ञानस्य ग्रहणेन सह नैव तद्गतं प्रामाण्यमप्रामाण्यं वा गृह्यते, किन्तु ज्ञानग्रहणानन्तरं ज्ञानान्तरेण तस्याऽनुमितिर्जायते । - १ अयमत्राऽऽशयः - अनुभवस्याऽनन्तरमनुभवाश्रिता प्रवृत्तिर्भवति । प्रवृत्तेः साफल्ये च तत्प्रवर्तकेऽनुभवे यथार्थत्वस्याऽधिगतिः । प्रवृत्तेविफलतायां चाऽयथार्थत्वस्य । एवमनुभवस्योत्पत्तावेव न किल तद्गतप्रामाण्या-ऽप्रामाण्ययोर्ग्रहणं, किन्तु प्रवृत्तिफललिङ्गकानुमानगम्यत्वं तयोरिति परतस्त्वम् । यद्यप्यनभ्यासदशोत्पन्नज्ञाने एव प्रामाण्या - ऽप्रामाण्यानुमित्यर्थं प्रवृत्तेरपेक्षणम्, अभ्यासदशायां तु पूर्वज्ञानसादृश्यमवलम्ब्य प्रवृत्तेः पूर्वमपि प्रामाण्या - ऽप्रामाण्यानुमानस्य सम्भवोऽस्त्येवं, परं प्रामाण्यऽप्रामाण्यग्रहणमनुमानेनैव भवत्युभयत्रेति परतस्त्वं निश्चप्रचम् । प्रामाण्यसंशयोऽपि प्रवृत्तिजनकः, संवादात्मकप्रवृत्तिजननयोग्यत्वमेव ज्ञाननिष्ठं प्रामाण्यं, सर्वत्र स्वतः प्रामाण्यग्रहे प्रामाण्यसंशयानुपपत्तिरित्यादयोऽस्य पक्षस्य प्रमुखाः सिद्धान्ताः । ५. अनियमितः पक्षः - प्राचीनबौद्धैः प्रतिपादितस्य मतस्य निरूपणमस्माभिर्दृष्टम् । नव्यबौद्धैस्तु तद् मतं त्यक्त्वा नूतनं मतं स्वीकृतम् । अस्य मतस्य निरूपणं कुर्वता बौद्धाचार्य - शान्तरक्षितेन तत्त्वसङ् ग्रहपञ्जिकायां (श्लोक-२८१०-११) पूर्वोक्तान् चतुरोऽपि पक्षान् निरस्याऽनियम एव स्थिरीकृतः । अस्य मतस्य विवरणे आचार्यकमलशील उल्लिखति (तत्त्व. पं. श्लोक ३१२२ वृत्तौ ) यत् " न हि बौद्धैरेषां चतुर्णामेकतमोऽपि पक्षोऽभीष्टः, अनियमपक्षस्येष्टत्वात् । तथाहि - उभयमप्येतत् किञ्चित् स्वतः किञ्चित् परत इति” । इह यद्यपि स्वतस्त्व - परतस्त्वयोर्विषयविभागो न दर्शितस्तथापि सन्मतितर्कवृत्तौ प्रामाण्यवादे ध्वनिश्रवणं, चित्रालिखितरूपदर्शनं, गन्धरसस्पर्शबुद्धयः, पदार्थानां तत्तत्कार्येषु व्यापारणमित्यादिज्ञानानामर्थक्रियानुभवरूपत्वात् स्वतः सिद्धं प्रामाण्यमित्याशयो बौद्धानां लक्ष्यते । अभ्यासदशोत्पन्नप्रत्यक्षेष्वनुमानेषु १. “प्रामाण्यं हि समर्थप्रवृत्तिजनकत्वादनुमेयम्" - न्यायवार्तिकतात्पर्यवृत्तिः १.१.१ २. " अभ्यासदशापन्नज्ञानेषु द्वितीयतृतीयजलादिज्ञानेषु तु प्रवृत्तेः पूर्वमप्यन्वयव्यतिरेकिणाऽपि पूर्वज्ञानदृष्टान्तेन तत्सजातीयत्वलिङ्गेन प्रामाण्यमवधार्यते " - तर्ककौमुदी ३. क्वचिदभ्यासदशोत्पन्नज्ञानस्थले द्वितीयानुव्यवसायेनाऽपि प्रामाण्याप्रामाण्यग्रहणं स्वीकृतमस्ति । द्रष्टव्यं तर्कप्रकाशः - खण्ड ४ । ४. पृष्ठम् ६८ ७०

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130