Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
१
प्रामाण्यबुद्धिरेवाऽनुवर्तते । एवं च प्रामाण्यबोधः स्वाभाविको ज्ञानान्तरनिरपेक्षश्च, अप्रामाण्यबोध: पुनर्ज्ञानान्तरसापेक्षत्वेनाऽस्वाभाविक इति ।
अयमत्राऽऽशयः - ज्ञाने प्रामाण्यनिश्चयेऽसति न तज्ज्ञानप्रवर्तिता पुरुषस्य प्रवृत्तिः । तथाहि – “मम अयं घट इति ज्ञानं प्रमाणभूत" मिति निश्चयो यावन्नोद्भवति, न तावत् तज्ज्ञानप्रवर्तिता पुरुषस्य घटविषयिकी प्रवृत्तिः सम्भवति, प्रवृत्तिवैफल्यभयात् ! निश्चयश्चाऽयं स्वतः प्रामाण्यस्य ग्रहणे एव सम्भवी । यतो ज्ञानप्रवर्तितायाः क्रियाया अनन्तरमेव तत्साफल्येन, ज्ञानगतप्रामाण्यस्याऽनुमानेन निश्चय इत्याग्रहे, प्रवृत्तेरेवाऽसम्भव इति ज्ञानमात्रे पूर्वं प्रामाण्यस्य निश्चयः, ततश्च तज्ज्ञानद्वारा पदार्थप्रकाशनेन पुरुषस्य प्रवृत्तौ प्रवर्त्तनम्, ततश्च प्रवृत्तेः संवादित्वे सति ( - ज्ञानक्रिययोरविरोधे, ज्ञानानुरूपमर्थस्योपलब्धाविति यावत्), पूर्वगृहीतस्य प्रामाण्यस्य पुष्टिः, प्रवृत्तेर्विसंवादित्वे च (ज्ञानानुरूपमर्थस्याऽनुपलब्धौ ) प्रामाण्यबोधस्य निवर्तनमप्रामाण्यस्य च ग्रहणमिति प्रक्रिया |
केषाञ्चिज्ज्ञानानामुत्पत्त्यनन्तरम् 'इदं प्रमा स्यादप्रमा वेति संशयोत्पत्तिरनुभवसिद्धा । सर्वत्र स्वत: प्रामाण्यग्रहे न सा सम्भवतीत्यत्राऽऽशङ्कोद्भवितुमर्हति । स्वतः प्रामाण्यवादिभिरस्या निराकरणार्थं ज्ञप्तेर्लक्षणे ‘दोषाभावे सतीत्यपि समावेशितम् । तथा च दोषाणां सत्त्वे स्वतः प्रामाण्यनिश्चयस्याऽभाव एवाऽभ्युपगतः । अथ च संशयो दोषाणां सत्त्वे एव भवतीति यत्र संशयस्तत्र 'दोषाभावे सती' त्यंशस्याऽ पूरणात् तत्र स्वतः प्रामाण्यस्य ज्ञप्तेः सम्भावनैव नाऽस्तीति नाऽऽपत्तिरिति ।
तत्र प्रभाकरगुरूणां मते सर्वं ज्ञानं स्वप्रकाशकमिति स्वसंवेदनेन ज्ञानस्य ग्रहः । मुरारिमिश्राणां मते ज्ञानं स्वसमनन्तरजन्येन मानसप्रत्यक्षेण ( - अनुव्यवसायेन गृह्यते । कुमारिलभट्टास्तु ज्ञानमतीन्द्रियं स्वीकुर्वन्तीति तेषां मते ज्ञानविषयीभूतेऽर्थे या तज्ज्ञानजन्या ज्ञाततोद्भवति, तया तज्ज्ञानमनुमीयते । वेदान्तिनस्तु साक्षिज्ञानेन वृत्तिज्ञानग्रहणमाहुरिति प्रस्थानानां नानात्वेऽपि ज्ञानग्रहणेन साकमेव तज्ज्ञाननिष्ठस्य प्रामाण्यस्याऽपि स्वाभाविकं ग्रहणमित्यत्र सर्वेषामैकमत्यम् ।
३. अप्रामाण्यं स्वतः प्रामाण्यं च परतः - बौद्धदर्शनस्येदं प्राचीनं मतं माधवाचार्याणां सर्वदर्शनसङ्ग्रहे, श्चेरबात्स्कीवर्यस्य 'बुद्धिस्ट लाजिक्' इत्यत्र (पृ. ६६), आचार्य - नरेन्द्रदेवस्य 'बौद्ध धर्मदर्शन' पुस्तके (पृ. ५९१) चोल्लिखितमस्ति । मतेऽस्मिन् सर्वज्ञानेषु प्रामाण्यव्यभिचारस्य सम्भवः । ततश्च ज्ञानमात्रे तद्ग्रहेणन साकं तन्निष्ठाप्रामाण्यस्याऽपि स्वाभाविकं ग्रहणं, 'इदं ज्ञानं प्रमाऽप्रमा वेति संशयोत्पत्तिश्च । पश्चात्काले ज्ञानजनककारणनिष्ठगुणानां भाने, ज्ञानप्रवर्तितप्रवृत्तेः संवादित्वे, आप्तवचनोपलम्भे
१. प्रामाण्या-प्रामाण्याश्रयीभूतज्ञानग्राहकं यद् ज्ञानं तदतिरिक्तं ज्ञानमंत्र ज्ञानान्तरत्वेनाऽभिप्रेतम् । तेन प्रामाण्यस्य ज्ञप्तौ ज्ञानग्राहकज्ञानस्याऽऽवश्यकत्वेऽपि न क्षतिः ।
२. “स्वतो ग्राह्यत्वं च दोषाभावे सति यावत्स्वाश्रयग्राहकसामग्रीग्राह्यत्वम् । न चैवं प्रामाण्यसंशयानुपपत्तिः । तत्र संशयानुरोधेन दोषस्याऽपि सत्त्वेन दोषाभावघटितस्वाश्रयग्राहकाभावेन तत्र प्रामाण्यस्यैवाऽग्रहात् "
वेदान्तपरिभाषा - अनु० परि०
६८

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130