Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
वा स्वतो गृहीतस्याऽप्रामाण्यस्य निवृत्तिः, प्रामाण्यबोधस्य चोत्पत्तिः । अन्यथाऽप्रामाण्यबोधस्य तादवस्थ्यमेव । इत्थमप्रामाण्यस्य स्वाभाविको निश्चयः, प्रामाण्यस्य च ज्ञानान्तरसापेक्ष: ( - परत) इति ।
न प्रामाण्यनिश्चयः, प्रत्युत प्रामाण्यसंशयः प्रवृत्तेर्जनक इतीह मुख्यमालम्बनं ज्ञायते । किञ्च, नव्यबौद्धैः प्राय आर्हतमतस्य प्रभावेनाऽनियमितपक्षोऽङ्गीकृत इति सम्भावनाऽपि भासते ।
४. प्रामाण्यमप्रामाण्यं चोभयं परत: - नैयायिकानां (समानतन्त्रत्वेन च वैशेषिकाणामपि) मते प्रामाण्यमप्रामाण्यं चोभयमप्युत्पत्तिर्ज्ञाप्तिश्चेत्युभयत्र परतः ।
उत्पत्तौ परतस्त्वं नाम ज्ञानसामान्यजनिका या कारणसामग्री तदतिरिक्तं यत् कारणं तज्जन्यत्वम् । ज्ञानसामान्ये यथार्थत्वा-ऽयथार्थत्वरूपं वैशिष्ट्यं क्रमशो गुण-दोषसापेक्षं, न स्वतः ।
अयमत्राऽभिसन्धिः - अनुभवोत्पादकानि कारणानि नाऽनुभवगतयथार्थत्वस्य जनकानि, तथा सति सर्वेषामप्यनुभवानां यथार्थत्वापत्तेः । न चैवम्, अनुभवेषु यथार्थत्वा ऽयथार्थत्वयोरनुभवसिद्धत्वात् । तज्ज्ञायते यदनुभवनिष्ठयथार्थत्वस्य जनकत्वं नाऽनुभवोत्पादककारणेषु, प्रत्युताऽनुभवोत्पादककारणव्यतिरिक्तमेव किञ्चिद् याथार्थ्यजनकम् । किं तदिति चेत् ? अनुभवोत्पादककारणसामग्रीनिष्ठगुणाख्यं तत्त्वमिति । एवं च तदपेक्ष्योत्पद्यमानं प्रामाण्यं न स्वाभाविकं, न सार्वदिकं, न सार्वत्रिकं च, किन्त्वपेक्ष्यगुणास्तित्वेन तस्य नियम्यत्वादस्वाभाविकत्वमेव तस्य । इदमेव प्रामाण्यस्योत्पत्तौ परतस्त्वम् । दोषापेक्षस्याऽप्रामाण्यस्य परतस्त्वं तु पूर्वं चर्चितमेव ।
स्वत:प्रामाण्यवादिनो गुणान् दोषाभावरूपान् कारणस्य स्वरूपेऽन्तर्भूतान् वा परिगणयन्ति । नैयायिकानां तद्विपक्षतया कथनमित्थम् - दोषरूपेण सम्मतानां तत्त्वानां यथा न कारणस्वरूपान्तर्भूतत्वं गुणाभावत्वं वा, यथा च तेषां स्वतन्त्रमस्तित्वं; तथैव गुणानामपि न कारणस्वरूपान्तर्भूतत्वं दोषाभावरूपत्वं वा, तेषामपि च स्वतन्त्रमस्तित्वम् । कादाचित्कत्वस्योभयत्राऽपि समानत्वादेकतरस्य स्वाभाविकत्वमन्यतरस्यौपाधिकत्वं
युक्तिहीनम् । लोकेऽपि " मम चक्षुषी प्राक् सदोषे अभूतामिदानीमासादितगुणे सञ्जाते" इत्यादिप्रयोगेषु चक्षुर्नैर्मल्यादीनां न दोषाभावरूपेण किन्तु गुणरूपेणाऽभ्युपगमः । सङ्क्षेपेणोच्यते चेत् कारणानां स्वाभाविकं रूपं ं ज्ञानसामान्यजनने सहभागि भवति । ज्ञाननिष्ठे याथार्थ्या याथार्थ्ये चाऽनुक्रमेण गुणदोषसापेक्षे, न स्वाभाविके इत्येव तयोः परतस्त्वमिति ।
प्रत्यक्षस्थले विशेषणवता विशेष्येण सममिन्द्रियसन्निकर्षो गुणः । अनुमितौ व्यापकवति व्याप्तिप्रतिबद्धस्य व्याप्यस्य ज्ञानं गुणः । उपमितौ यथार्थसादृश्यादेर्ज्ञानं गुणः । शाब्दबोधे तात्पर्यज्ञानं गुणः । एवमन्येऽपि बहवो गुणाः सम्भवन्ति । तत्तत्स्थले एषामभावो वैपरीत्यं वा दोष इति ।
१. "उत्पत्तौ परतस्त्वं नाम ज्ञानकारणातिरिक्तकारणजन्यत्वम्"
२. "दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् " - सिद्धान्तमुक्तावली - ३१ ३. द्रष्टव्यं न्यायसिद्धान्तमञ्जरीप्रकाशः-४
प्रमाणचन्द्रिका - परि० १
६९

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130