Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 68
________________ श्रीकदम्बगिरेर्माहात्म्यम् आ. विजयहेमचन्द्रसूरि : तथा कदम्बगिरिमाहात्म्यं वर्णयामि स्वशक्तितः । शत्रुञ्जयस्नान-महिमानमनुत्तमम् ॥१॥ सुदुस्तरे कलियुगे पञ्चमारेऽपि सम्प्रति । मनुष्याः पापकर्माणो रागद्वेषसमाकुलाः ॥२॥ प्रतिधर्ममविश्वस्ताः कुतर्का नास्तिका जनाः । पाखण्डधर्मनिरता देवधर्मविनिन्दकाः ॥३॥ गुरुमानमकुर्वन्तः पतन्ति नरकेऽशुचौ । मातृपितृगुरुभक्ति-रहिताः सकला जनाः ॥४॥ गुरुविद्वेषमिच्छन्ति धनमानमदान्विताः 1 स्तब्धा दुर्व्यसनासक्ताः पुत्रस्त्रीद्रव्यलालसाः ||५॥ अहं ममेत्यभिहताः सच्छासनपराङ्मुखाः । अन्योऽन्यं द्वेषकर्तारः सतां दुःखप्रदायकाः ॥६॥ इति दोषविभेदेन पतन्ति नरकेऽशुचौ । जिनशासनभक्तिवत्सलतया कृपालुना शासनाधिष्ठायकेन विचारितं स्वमनसि यद्येते उपरि वर्णिता महापापिजना भगवद्विमुखा भूत्वा स्वेनैव दोषेण नरके पतिष्यन्ति तन्मम शासनाधिष्ठायकताया किं महत्त्वं यद्येतेषां महापापिनामपि पतितपावनपरमात्मसांमुख्यं प्रापय्योद्धारं करिष्यामि इति ममाऽधिष्ठायकभावस्य साफल्यम्, अतस्तेषामुद्धारम्प्रति मया दयालुता कर्तव्या । केनोपायेन तेषां रक्षणं कार्यमिति क्षणमात्रं ध्यात्वा स्वतो भूमेरधस्तात् पाताले पापिनां पतनाय नारकलोको वर्तते, तस्मिंस्तामिस्रान्धतामिस्ररौरवाद्याः शतशो नरकावासाः पापानां शिक्षार्थं सन्ति । यत्र परमाधार्मिकपराधीनाः सर्वे पापिनः स्वकर्मफलदुःखं भुञ्जाना: सन्तः पश्चात्तापं प्रकुर्वन्ति प्रभो ! मया किं कृतम् यदेतादृशं दुःखं प्राप्नोमीत्यादि । तत्राऽपि दक्षिणस्यां दिशि बहुपापिनो जीवाः, तत्पापिनामुत्तरणार्थमेव लोकानुभावेन तत्रैव दक्षिणस्यां दिशि भूम्यां श्रीकदम्बगिरिः स्थापित इव लक्ष्यते । यस्य दर्शनेनैव महापापिनामपि पापनाशो भविष्यति । श्रीशत्रुञ्जयतले च वहन्त्यां शत्रुञ्जयनद्यां स्नात्वा शुद्धान्त:करणाः सन्तस्ते महापापिनोऽपि पापरहिता भविष्यन्ति । उक्तञ्च - ܂ दक्षिणस्यां च काष्ठायां कदम्बाख्यो गिरिर्महान् । यस्य संदर्शनेनैव शुद्ध्यन्ति पापिनो जनाः ॥ १॥ ६१

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130