Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 69
________________ तस्मात् पापप्रणाशाय नरकोत्तरणाय च । कदम्बाख्यगिरेर्यात्रा कर्तव्या पापभीरुभिः ॥२॥ यत्रैकदर्शनादेव क्षीयन्ते पापराशयः । शुद्धान्तःकरणा भूत्वा मोदन्ते दिवि देववत् ॥३॥ शत्रुञ्जया नदी यत्र स्नात्वा देवं प्रपूजयेत् । दत्त्वा दानञ्च विधिवन्मानुष्यं सफलं कुरु ||४|| मिसूरिं गुरुं नत्वा तदाज्ञापरिपालकः । सर्वस्वं गुरवे दत्त्वा न पुनर्मानुषो भवेत् ॥५॥ प्रतिष्ठां मन्दिरं कृत्वा तथा यात्रामहोत्सवान् । स्ववित्तं शुभमार्गेण व्ययं नीत्वा सुखीभव ||६|| इति विचार्य ध्यानाज्जाग्रत् संस्तं श्रीकदम्बाख्यगिरिम्प्रति यतीश्वरं श्रीनेमिसूरिं भगवदात्मभूतं निजानन्दसहितं मनसा प्रेरितवान् यद् भवान् भगवद्रूपोऽस्ति भव्यजीवानुग्रहार्थञ्च पृथिव्यां सञ्जातः । अयं भवतो लोकोत्तरावतारस्ततो जिनेश्वरधर्मविस्तारं करोतु । अतो भवान् स्वोपार्जितदिव्यज्ञानेन जिनप्रासादादीनि निर्माप्य प्रतिष्ठायात्रादिमहोत्सवञ्च कारयित्वा सर्वेषां जीवानां जिनधर्मसम्प्रदाय-पुरस्सरमुंद्धारं करोतु तेन भवतोऽवतारसाफल्यं भविष्यति । ततो भोगेन पुण्यक्षयं कुर्वन् कुशलेन कर्मणा पापक्षयं कुर्वन् कालजवेन कलेवरं हित्वा देवलोकगीतां विशुद्धां कीर्तिमवाप्य मुक्तबन्धः सन् आत्मज्योतिःस्वरूपमेष्यति भवात् । इति शासनाधिष्ठायकः सद्गुरुं नेमिसूरिमादिष्टवान् । अतः भव्यानुग्रहसम्भूतं जिनाज्ञापरिपालकम् । भव्येभ्यो मोक्षदातारं नेमिसूरिं गुरुं नुमः ॥७॥ कदम्बाख्यगिरिं नत्वा शत्रुञ्जयासमीपगम् । देवधर्मगुरुं नत्वा मोक्षधर्मं समाचरेत् ॥८॥ इति धर्मविधिं कृत्वा मानुष्यं मोक्षहेतुकम् । सफलं कुरु जीवात्मन् ! मोक्षं प्राप्तुं यदीच्छसि ॥९॥ अतो नरकार्हाणां जीवानां च भव्यानामपि तारणार्थमयं कदम्बाख्यो गिरिर्वर्तते । तस्मात्तत्र सङ्घयात्रया गत्वा जिनमन्दिरं वा मूर्तिं प्रतिष्ठाप्य गुर्वाज्ञां गृहीत्वा तदाज्ञापुरस्सरं शुद्धधर्मं विज्ञाय सुकृती भव्यो जीव आत्ममोक्षं कुर्यादिति शम् ॥ इति श्रीकदम्बगिरि-माहात्म्यम् ॥ ६०

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130