Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 71
________________ ऽप्रामाण्ये अपि गृह्येते उत नेति । सङ्क्षपेणोच्यते चेद, ज्ञानस्य ग्रहणं यदा जायते (भवतु तत् स्वसंवेदनतः परसंवेदनतो वा), तदैव तन्निष्ठे प्रामाण्या-ऽप्रामाण्ये अपि स्वाभाविकतया गृह्येते, आहोस्वित् तद् ग्रहणं ज्ञानग्रहणानन्तरं क्रियान्तरसापेक्षं भवति ? दार्शनिकपरिभाषायां स्वाभाविकं सहभावि ग्रहणं 'स्वतः', क्रियान्तरमपेक्ष्य जायमानं ग्रहणं च 'परतः' उच्यते । अपि च तद् ग्रहणं कथं भवतीति विषयमधिकृत्य जायमानो विमर्शः 'प्रामाण्यवादः' कथ्यते । वस्तुतः प्रामाण्यवादचर्चा द्विधा भवति । एकः प्रकारस्तु यथोपरि दर्शितस्तथा प्रामाण्यस्याऽप्रामाण्यस्य वा ग्रहणमधिकृत्य । द्वितीयस्त्वित्थम् - ज्ञाने प्रामाण्यमप्रामाण्यं वा कुत उत्पद्यते इति विषये दार्शनिकानां नानाविधानि मन्तव्यानि सन्ति । तत्र केषाञ्चिन्मते ज्ञानसामान्यस्य जनिका या कारणसामग्री भवति, सैव तत्तज्ज्ञाननिष्ठस्य प्रामाण्यस्याऽप्रामाण्यस्य वा जनने पर्याप्ता भवति । एवं च प्रामाण्यमप्रामाण्यं वा स्वोत्पत्तौ ज्ञानजनकसामग्रीमतिरिच्य कारणान्तरनिरपेक्षत्वात्, स्वाभाविकतयोत्पद्यमानं (-स्वतः) कथ्यते । अतो विरुद्धतया प्रामाण्या-ऽप्रामाण्ययोः 'परत' उत्पत्तिमङ्गीकर्तार आचार्या ज्ञानजनकसामग्रीमविशिष्टज्ञानजनिकां कथयन्ति । एतेषां मते तत्तज्ज्ञाने प्रामाण्या-ऽप्रामाण्यरूपं वैशिष्ट्यं कारणगतगुण-दोषमपेक्ष्यमुत्पद्यते, न स्वाभाविकं तत् तत्र सम्भवति । प्रकारद्वयविश्लेषणार्थं ग्रहणचर्चा 'ज्ञप्तौ प्रामाण्यवादः' उत्पत्तिचर्चा च 'उत्पत्तौ प्रामाण्यवाद' इत्यभिधीयते । साधारणतः प्रामाण्यवाद-सम्बन्धिन्यौ इमे चर्चे परस्परमवलम्बिते इत्यतः, उत्पत्तौ 'स्वतस्त्व'स्वीकर्तारो ज्ञप्तावपि स्वतस्त्वमेव समर्थयन्ति, 'परतः'पक्षधरास्तूभयत्र परतस्त्वम् । अपवादास्त्वत्राऽपि सन्त्येव, परं स्वल्पाः । मूलत: चर्चेयमीश्वरस्य सिद्धिमधिकृत्य प्रवर्तते स्म । तत्राऽपि सा शब्दप्रमाण एव सीमिताऽऽसीत् । नैयायिका ईश्वरसिद्ध्यर्थमेवोत्पत्तौ ज्ञप्तौ चोभयत्र परतः प्रामाण्यं स्वीकुर्वन्ति स्म । तेषां कथनमासीद् यद् वक्तृगत-यथार्थज्ञानात्मकगुणत एव, वक्तृप्रयुक्त-वाक्यजन्ये बोधे प्रामाण्यमुत्पद्यते न तु स्वतस्तत् सम्भवति । अर्थात् श्रोतरि जायमानो बोधो यदि प्रमात्मकस्तहि तस्मिन् प्रामाण्यस्य जनकरूपेण वाक्यस्य वक्तरि यथार्थज्ञानस्याऽस्तित्वं स्वीकरणीयमेव, अन्यथा वक्तृगताऽयथार्थज्ञानात्मकदोषहेतुतो वाक्यजन्यो बोधोऽप्रमात्मकोऽपि भवेत् । इत्थं च वाक्यसामान्यस्य प्रमाप्रमोभयात्मकबोधस्य जनकत्वेऽपि, एकस्मिन् बोधे प्रामाण्या-ऽप्रामाण्यान्यतरदेव जायते, तत्र वक्तृगतो गुणो दोषो वैव हेतुभूतः । अथ च वेदजन्यबोधोऽपि प्रमाणभूतः । ततस्तत्र प्रामाण्यस्य जनकतया यथार्थज्ञानात्मक-गुणस्याऽस्तित्वं स्वीकरणीयमेव, तच्च सर्वव्यापि यथार्थज्ञानं नेश्वरमतिरिच्याऽन्यत्र सम्भवतीति, वेदजन्यबोधनिष्ठप्रामाण्यजनकयथार्थज्ञानस्याऽऽश्रयतयेश्वरः सिद्ध्यति । १. यथा जैनमते उत्पत्ती परत:पक्षस्यैव स्वीकारेऽपि, ज्ञप्तौ कथञ्चित् स्वतःपक्षस्याऽपि समादरः । ६४

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130