Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अन्वयः ये, जैनागमानुभवभाविततावकीनाक्षीणात्मभावजनकोपशमातिपीनाम्, विभावमथनीम्, शैलीम्, आप्नुवन्ति, (ते), सद्यः, स्वयम्, विगतबन्धभयाः, भवन्ति ॥४२॥
वृत्तिः ये - बुद्धिविषयाः । जैनागमानुभवभाविततावकीनाक्षीणात्मभावजनकोपशमातिपीनाम् - जिनानामर्हतामिमे जैनास्ते च ते आगमाः कल्पसूत्रप्रमुखशास्त्राणि जैनागमास्तेषामनुभवो यथार्थज्ञानं जैनागमानुभवस्तेन भावितः संस्कारितो जैनागमानुभवभावितस्तेन तावकीनेन - भावत्केन अक्षीणात्मभावजनकोपशमेन - परिपुष्टपरमात्मतत्त्वजननप्रशमेन अतिपीना - अत्यन्तं परिपुष्टा जैनागमानुभवभाविततावकीना क्षीणात्मभावजनकोपशमातिपीना तां तथा । विभावमथनीम् - विरुद्धश्चाऽसौ भावोऽभिप्रायो रत्यादिको वा विभावस्तं मनाति विलोडयतीति विभावमथनी, तान्तथा । शैलीम् - चारित्रादिपरिपालनरीतिम् । आप्नुवन्ति - अधिगच्छन्ति । (ते - बुद्धिविषयाः प्राप्ततादृशशैलीकाः पुरुषाः) सद्यः - तत्क्षणम् । "सहसैकपदे सद्योऽकस्मात् स यदि तत्क्षणे" ६।१६७॥ इत्यभिधानचिन्तामणिः । स्वयम् - आत्मना । विगतबन्धभयाः - विगतं विनष्टं बन्धभयमष्टविधकर्मजनितसाध्वसं येषान्ते तथा । भवन्ति - जायन्ते । विगतबन्धीभावे तादृशशैलीप्रापणस्य हेतुतयाऽभिधानात् काव्यलिङ्गमलङ्कारः । ॥४२॥
पुण्यानुबन्धिसुकृतं समुपाय॑ प्राज्यं
प्राप्नोति शाश्वतमरं वरमात्मराज्यम् । सद्भावभावितमना विशदं मिमीते ।
यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ अन्वयः यः, मतिमान्, तावकम्, इमम्, स्तवम्, अधीते, सद्भावभावितमनाः, विशदम्, मिमीते, (सः), पुण्यानुबन्धि, प्राज्यम्, सुकृतम्, समुपाय॑, अरम्, शाश्वतम्, वरम्, आत्मराज्यम्, प्राप्नोति ॥४३।।
वृत्तिः यः - बुद्धिविषयः । मतिमान् - प्रशमितबुद्धिः । मानव इति शेषः । तावकम् - तव श्रीमतो भवतोऽयन्तावकः तन्तथा । इमम् - प्रत्यक्षसमुपस्थितम् । स्तवम् - स्तोत्रम् । अधीते - पठति, चिन्तयति, विचारयति, परामृशति । सद्भावभावितमनाः - सता समीचीनेन भावेनाऽभिप्रायेण भावितं संस्कारितं मनोऽन्तःकरणं यस्य स तथा । विशदम् - विशुद्धम् यथा स्यात्तथा । मिमीते - जानाति । सः - बुद्धिविषयः । यच्छब्दस्योत्तरवाक्यगतत्वेन पूर्ववाक्ये तच्छब्दानुपादानेऽपि न क्षतिरित्यनुसन्धेयम् । पुण्यानुबन्धिसुकृतप्रयोजकम् यत्पुण्यमुत्तरोत्तरं पुण्यमेव प्रयोजयति तदिति भावः । प्राज्यम् - प्रचुरम् । सुकृतम् - पुण्यम् । समुपायं - लब्ध्वा । अरम् - शीघ्रम् । "लघु क्षिप्रमरं द्रुतम्" इत्यमरः । शाश्वतम् - सनातनम् नित्यमिति यावत् । वरम् - अभीष्टम् । आत्मराज्यम् - स्वराज्यम् सिद्धावस्थितिमिति यावत् । प्राप्नोति - व्यधिगच्छति, लभते इति यावत् । भवदीयस्तवाऽध्ययनात् सम्यग्दर्शनादिक्रमेण गुणश्रेणीमुत्तरोत्तरामधिरूढा भविका भव्यं मोक्षपदमधिकुर्वन्तीति भावः ॥४३॥

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130