Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 63
________________ दुष्पञ्चमारकभवो मदनातिरेकः प्रध्वंसितानुभवभावनसद्विवेकः । मोहद्विजिह्व उपयाति न तं पुमांसं त्वन्नामनागदमनी हदि यस्य पुंसः ॥३७॥ अन्वयः दुष्पञ्चमारकभवः, मदनातिरेकः, प्रध्वंसितानुभवभावनसद्विवेकः, मोहद्विजिह्वः, तस्य, पुंसः, (पार्श्वे) न, उपयाति, यस्य, पुंसः, हृदि, त्वन्नाम, नागदमनी, (अस्ति) ॥३७॥ वृत्तिः दुष्पञ्चमारकभवः - दुष्टो यः पञ्चमारकः इदानीन्तनातिविचित्राधर्मसम्पादककालविशेषो दुष्पञ्च मारकस्तत्र भवस्तथा । मदनातिरेकः- मदनस्य मन्मथस्याऽतिरेक आधिक्यम् कामदेवप्रतापबाहुल्यमिति यावत् । अथवा मदनस्यातिरेक आधिक्यं यस्मात्स तथा । प्रध्वंसितानुभवभावनसद्विवेकः - प्रध्वंसिता विनाशिता अनुभवश्च भावनं च सद्विवेकश्च अनुभवभावनसद्विवेका येन स तथा । मोहद्विजिह्वः - मोहोऽज्ञान मेव - द्विजिह्वः सर्पस्तथा । "सर्पोऽहि: पवनाशनः । भोगी भुजङ्गभुजगावुरगो द्विजिह्वः" ४।३६९।। इत्यभिधानचिन्तामणिः । तम् बुद्धिविषयीभूतम् । पुमांसम् - पुरुषम् । न - नहि । उपयाति - तस्य पुरुषस्य पार्श्व देशं न व्रजतीति भावः । यस्य - बुद्धिविषयीभूतस्य महामहाभाग्यशालिनः । पंसः - पुरुषस्य । हृदि - हृदये, अन्तःकरणे इति यावत् । त्वन्नामनागदमनी - त्वन्नामैव नागदमनी सर्पबन्धनं रज्जुविशेषः । (अस्ति) । अत्र मोहे द्विजिह्वत्वारोपाङ्गतया भवदीयाभिधाने नागदमनीत्वारोपस्य कृतत्वात् सावयवरूपकालङ्कारः ॥३७॥ अज्ञानभावजननं तिमिरं मुनीनां सूक्ष्मार्थबोधकरणे व्यथनं शुचीनाम् । गाढं घनं दिनकरोदयतः समैधि त्वत्कीर्तनात्तम इवाऽऽशु भिदामुपैति ॥३८॥ अन्वयः शुचीनाम्, मुनीनाम्, सूक्ष्मार्थबोधकरणे, व्यथनम्, अज्ञानभावजननम्, समैधि, गाढम्, घनम्, तिमिरम्, दिनकरोदयतः, तमः, इव, त्वत्कीर्तनात्, आशु, भिदाम्, उपैति ॥३८॥ वृत्तिः शुचीनाम् - अतिविशुद्धान्तःकरणानाम् । मुनीनाम् - आगम-तत्त्वार्थचिन्तनपराणां श्रमणानाम् । सूक्ष्मार्थबोधकरणे - सूक्ष्मोऽल्पबुद्धिजनबुद्ध्यविषयो योऽर्थोऽभिधेयः तस्य बोधो - ज्ञानन्तस्य करणं सूक्ष्मार्थबोधकरणन्तस्मिंस्तथा । व्यथनम् - व्यथादायकम् बाधकमिति यावत् । अज्ञानभावजननम् - अज्ञानस्य अबोधस्य भावः सत्ताऽज्ञानभावस्तस्य जननमुत्पादकन्तथा । समैधि - उत्तरोत्तरं वर्धनशीलम् । गाढम् - अत्यन्तम् । अतिमात्रमिति यावत् । “अतिवेलभृशात्यतिमात्रोद्गाढनिर्भरम् । तीत्रैकान्तनितान्तानि गाढबाढदृढानि चे"त्यमरः । घनम् - सान्द्रम् । तिमिरम् - अज्ञानध्वान्तम् । “तिमिरं ध्वान्ते नेत्रमयान्तरे" इति मेदिनी । दिनकरोदयतः - दिवाकरोदयाचलसम्बन्धात् । तमः - अन्धकारम् । इव - यथा ।

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130