Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 62
________________ - वैराग्यभावस्तन्तथा। “भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु । क्रिया लीलापदार्थेषु विभूतिबुधजन्तुषु ” इति मेदिनी । अधिगत्य प्राप्य । गृहीतदीक्षम् - गृहीता स्वीकृता दीक्षा पञ्चमहाव्रतपालनप्रतिज्ञा येन स गृहीतदीक्षस्तन्तथा । सुशिक्षम् - सुशोभना शिक्षोपदेशः लौकिकशास्त्रीयाध्यात्मिककर्तव्यज्ञानमिति यावत् यस्य स सुशिक्षस्तन्तथा । ते - श्रीमतो भवतः । शमाश्रयः - शमः प्रशम आश्रयोऽवलम्बनं यस्य स शमाश्रयस्तन्तथा । ते श्रीमतो यतिवृन्दवन्दितक्रमसरोरुहस्य भवतः । क्रमयुगाचलसंश्रितम् - क्रमयुगं चरणयुगलमेवाऽचलः पर्वतः क्रमयुगाचलस्तं संश्रितः प्राप्तः क्रमयुगाचलसंश्रितस्तन्तथा । माता - जननी। पिता जनकः । प्रियतमा अतिप्रिया भार्य्या । तनयः - पुत्रः । स्नेहाविलः - प्रेमविह्वलः, तद्विषयकरागवशीभूतमानस इति यावत् । (द्रष्टुम् ) आयाति - आगच्छति । (परम् - किन्तु ) आक्रामति • दीक्षां परित्यज्य गृहं गन्तुमुत्साहयति । न - नहि । तत्रत्यां तस्य शिक्षादिव्यवस्थां परमौन्नत्यसम्पादनशीलसंरक्षणाद्यर्थं सततं शास्त्राद्यभ्यासरीतिं दृष्ट्वा मुग्धो भवतीति भावः ||३५|| - — रूपादिपञ्चविषयात्मककाष्ठजातं ज्ञानादिभस्मकरणं परिनष्टसातम् । कामानलं विकृतिधूमविरूपवेषं त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥३६॥ अन्वयः त्वन्नामकीर्तनजलम्, रूपादिपञ्चविषयात्मककाष्ठजातम्, ज्ञानादिभस्मकरणम्, परिनष्टसातम्, विकृतिधूमविरूपवेषम्, अषम्, कामानलं, शमयति ॥३६॥ वृत्ति: त्वन्नामकीर्तनजलम् - तव भवतो नामाऽभिधानं त्वन्नाम, तस्य कीर्तनं भूयोभूयः समुच्चारणं तदेव तापशमककत्वाज्जलं सलिलन्तथा । कर्तृ । रूपादिपञ्चविषयात्मककाष्ठजातम् - रूपादयो ये पञ्च विषया इन्द्रियार्थास्त एवाऽत्मा स्वरूपं यस्य तदात्मकं काष्ठजातमिन्धनकदम्बं यस्य स रूपादिपञ्च विषयात्मककाष्ठजातस्तन्तथा । "रूपं शब्दो - गन्ध-रस-स्पर्शाश्च विषया अमी । गोचरा इन्द्रियार्थाश्चेत्यमरः । ज्ञानादिभस्मकरणम् - ज्ञानं सम्यग्दर्शनमादिः प्रथमावयवो यस्य तदाद्येव भस्म - क्षारः, क्षेति यावत्, ज्ञानादिभस्म तस्य करणमसाधारणं कारणं साधकतमं वा ज्ञानादिभस्मकरणन्तत्तथा । " असाधारणं कारणं करणम्” इति तर्कसङ्ग्रहः, "साधकतमं करणम्" इति महामुनिपाणिनिसूत्रम्, परिनष्टसातम् - परि सर्वतोभावेन नष्टं विनष्टं सातं सौख्यं यस्मात् स परिनष्टसातस्तन्तथा । " अथो शर्म निर्वृन्तिः । सातं सौख्यं सुखम्" ६|६|| इत्यभिधानचिन्तामणिः । विकृतिधूमविरूपवेषम् - विकृतिर्मानसिकविकार एव धूमोऽग्निचिह्नं विकृतिधूमंस्तेन विरूपो वेषो नेपथ्यं यस्य स विकृतिधूमविरूपवेषस्तन्तथा । "धूमः स्याद्वायुवाहोऽग्निवाहो दहनकेतनम् । ४ १९९॥ वेषो नेपथ्यमाकल्पः " ३।२९९ ॥ इत्यभिधानचिन्तामणिः । अशेषम् - समस्तम् । कामः कन्दर्प एव अनलो वह्निः कामानलस्तन्तथा । शमयति - निर्वापयति । भवतां कीर्तनेन कामसन्तापो दूरं पलायते इति भावः । सावयवसमस्त-वस्तुविषयरूपकालङ्कारः । लक्षणाद्युक्तमवसेयम् ॥३६॥ ५५

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130