Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 61
________________ निर्भीकतां नु भवतां समताश्रितानां __ दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३४॥ अन्वयः श्रीमान्, व्रतोच्चरणतीर्थविधानभूते, सद्धर्मकर्मणि, महाभयम्, आविधूते, समताश्रितानाम्, भवताम्, निर्भीकताम्, दृष्टवा, भवदाश्रितानाम्, भयम्, नो, भवति, नु ||३४|| वृत्तिः श्रीमान् - श्रीः शोभा सम्पत्तिर्लक्ष्मीरस्त्यस्येति तथा । "शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरिव कथ्यते" इति शाश्वतः । व्रतोच्चरणतीर्थविधानभूते - व्रतस्य संयमनियमस्योच्चरणं दीक्षादिकालिकसमुद्घोषमन्त्रोच्चार इति यावत्, व्रतोच्चारणं तच्च तीर्थस्य कादम्बादिपवित्रक्षेत्रस्य पात्रस्योपाध्यायस्य शास्त्रस्य वा विधानं निर्माणं तत्तीर्थविधानञ्च व्रतोच्चरणतीर्थविधानम्, तद्भूतं प्राप्तम् तस्य भूतमुचितं वा व्रतोच्चारणतीर्थ विधानभूतम् तस्मिंस्तथा। "तीर्थं शास्त्राध्वरक्षेत्रोपायनारीरजःसु च । अवतारषिजुष्टाम्बुपात्रोपाध्यायमन्त्रिषु", "भूतं क्ष्मादौ पिशाचादौ जन्तौ क्लीवं त्रिषूचिते । प्राप्ते वित्ते समे सत्ये देवयोन्यन्तरे तु ना । कुमारेऽपि" इत्युभयम् मेदिनी । सद्धर्मकर्मणि - सन् शोभनश्चाऽसौ धर्मः सुकृतं सद्धर्मस्तस्य कर्मकार्य सद्धर्मकर्म तस्मिस्तथा । महाभयम - महदधिकं च तद्भयं साध्वसं महाभयम, तत्तथा "सन्महत्परमोत्तमोत्कष्टैः" इत्यनेन कर्मधारयसमासः । आविधूते - दूरीकरोति । समताश्रितानाम् - समतां समदशितामाश्रिताः समताश्रितास्तेषान्तथा । भवताम् - अनवद्यविद्याविद्योतितविशुद्धमानसानाम् श्रीमतां सूरीश्वरचक्रचक्रवर्तीनां युष्माकम्, निर्भीकताम् - निर्गता भीर्भयं येषां ते निर्भीका: “अनेकमन्यपदार्थे" इत्यनेन बहुव्रीहिसमासानन्तरं "शेषाद्विभाषा" इत्यनेन वैकल्पिककप्प्रत्ययः, तेषां भावो निर्भीकता "प्रकृतिजन्यबोधे प्रकारीभूतो भावः" इत्यभियुक्तोक्तेर्भयराहित्यमिति यावत् तान्तथा । दृष्ट्वा - अवलोक्य भवदाश्रितानाम् - भवन्तं त्वामाश्रिता भंवदाश्रितास्तेषान्तथा, भवदनुयायिनामन्तेवासिनां सेवकानां च । भयम् - साध्वसम् "भयं भीीतिरातङ्क आशङ्का साध्वसं दरः" २।२१५।। इत्यभिधानचिन्तामणिः । नो - नहि । "अभावे, नह्य नो . नाऽपि" इत्यमरकोशः । भवति - जायते । नु - वितर्के । “नु वितर्कोपमानयोः" इति मेदिनी । "यद्यदाचरति श्रेष्ठ-स्तत्तदेवेतरो जनः" इति नीतिरीत्यनुशरणादिति भावः ॥३४॥ वैराग्यभावमधिगत्य गृहीतदीक्षं माता पिता प्रियतमा तनयः सुशिक्षम् । स्नेहाविलः समुपयाति शमाश्रयं ते नाऽऽक्रामति क्रमयुगाचलसंश्रितं ते ॥३५॥ अन्वयः वैराग्यभावम्, अधिगत्य, गृहीतदीक्षम्, सुशिक्षम्, ते, शमाश्रितम्, ते, क्रमयुगाचलसंश्रितम्, माता, पिता, प्रियतमा, तनयः, स्नेहाविलः, (द्रष्टुम्) आयाति, (परम्) आक्रमति, न ॥३५॥ वृत्तिः वैराग्यभावम् - विशिष्टो परमतत्त्वादिविषयको रागः प्रेम विरागस्तस्य भावो वैराग्यम् । "गुणवचनब्राह्मणादिभ्य: ष्यङ्" इत्यादिना ष्यङि प्रत्यये, तस्य भावो भावनं विचारोऽभिप्राय इति भावः ।

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130