Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तोयाधारेऽखिलेऽपि प्रसरति च मरालादिकः पक्षिसन्धौ ज्योत्स्ना पेया चकोरैर्जलधर-समये मानसं यान्ति हंसाः ।। पादाघातादशोकं विकसति बकुलं योषितामास्यमद्यैयूनामङ्गेषु हाराः स्फुटति च हृदयं विप्रयोगस्य तापैः । मौर्वी रोलम्बमाला धनुरथ विशिखाः कौसुमाः पुष्पकेतोभिन्नं स्यादस्य बाणैर्युवजनहृदयं स्त्रीकटाक्षेण तद्वत् ।। अहन्यम्भोजं निशायां विकसति कुमुदं चन्द्रिकाशुक्लपक्षे मेघध्वानेषु नृत्यं भवति च शिखिना नाऽप्यशोके फलानि । न स्याज्जाती वसन्ते न च कुसुमफले गन्धसारद्रुमाणामित्याधुन्नेयमन्यत् कविसमयगतं सत्कवीनां प्रबन्धे ॥ इति ।
मुनीन्द्र - योगीश । लोके - जगति । सूर्योतिशायि - दिवाकराधिकानुभावः । असि - भवसि । "व्यतिरेकालङ्कारः । “व्यतिरेको विशेषश्चेदुपमानोपमेययोः" इति चन्द्रालोकीय-तल्लक्षणस्मरणात् ॥१७॥
ज्योत्स्ना समग्रभुवनेऽस्ति यशःस्वरूपा
त्वत्संस्थितिर्न च कदाऽपि बुधारिरूपा । त्वदर्शनं मधुरयेत् कटुकं नु निम्बं
विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥१८॥ अन्वयः समग्रभुवने, (ते) यशःस्वरूपा, ज्योत्स्ना, अस्ति, त्वत्संस्थितिः, कदाऽपि, बुधारिरूपा, न, त्वद्दर्शनम्, निम्बम्, कटुकम्, मधुरयत्, नु, जगत् विद्योतयत्, अपूर्वशशाङ्कबिम्बम्, (अस्ति) ||१८||
वृत्तिः समग्रभुवने - समग्रं समस्तं च भुवनं जगत् समग्रभुवनं तस्मिंस्तथा । "सर्वं समस्तम् न्यून समग्रं सकलं समम् । विश्वाशेषाखण्डकृत्स्नन्यक्षाणि निखिलाखिले" ६६९।। इत्यभिधानचिन्तामणिः । (ते - श्रीमतो भवतः), यश:स्वरूपा - यशः कीर्तिः स्वरूपमाकारो यस्याः सा तथा । ज्योत्स्ना - कौमुदी । "चन्द्रिका कौमुदी ज्योत्स्ना" इत्यमरः । अस्ति - वर्तते । चन्द्रस्य चन्द्रिका तावन्न समग्रजगति न वा सर्वदा. अमावास्यादौ सर्वथा लोपदर्शनात भवतां त यशश्चन्द्रिका सर्वभवनव्यापिका सर्वकालावच्छेदेन वरीवर्तमाना चाऽस्तीति भावः । त्वत्संस्थितिः - तव भवतः संस्थितिः स्वस्थानं मर्यादा वा तथा । "स्थितिः स्त्रियामवस्थाने मर्यादायां च योषिति" इति मेदिनी । कदाऽपि - कस्मिन्नपि कालेऽपि । बुधारिरूपा - बुध-शात्रवलक्षणा । न - नहि । चन्द्रस्थितिबुंधात्मग्रहविरोधिनी भवतस्तु विदुषामानुकूल्या पादिकेति भावः । त्वदर्शनम् - श्रीमद्भवत्साक्षात्कारः भवदीयं ज्ञानं वा । "दर्शनं नयनस्वप्नबुद्धि धर्मोपलब्धिषु । शास्त्र-दर्पणयोः" इति मेदिनी । कटुकम् - कटुत्वदोषकवलितम् । निम्बम् - सर्वतोभद्रफलम् । मधुरयेत् - मधुरतारसपरिपूर्णं करोति । "यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं
४०

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130