Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 57
________________ जन्माभिषेकसमये कनकाद्रिशृङ्गे की विभाति जिनबिम्बममर्त्यभृङ्गे । बिम्बं सुचारु भवतोपमितं सदश्मे तुङ्गोदयाद्रिशिरसीव सहस्त्ररश्मेः ॥ २९ ॥ अन्वयः जन्माभिषेकसमये, कनकाद्रिशृङ्गे, अमर्त्यभृङ्गे, जिनबिम्बम् कीदृक्, विभाति, (इति प्रश्ने) सदश्मे, तुङ्गोदयाद्रिशिरसि, सहस्ररश्मेः, सुचारु, बिम्बम् इव भवता, उपमितम् ॥२९॥ - वृत्तिः जन्माभिषेकसमये चरमतीर्थकृतो भगवतो महावीरस्य देवेन्द्रकृतजन्माभिषेककाले । कनकाद्रिशृङ्गे - कनकमयः सुवर्णघटितश्चाऽसावद्रिः शैलः कनकाद्रिः सुमेरुः, तस्य शृङ्गं शिखरन्तं तथा । अमर्त्यभृङ्गे - अमर्त्या देवा भृङ्गा भ्रमरा इव यत्र तत्र तथा । जिनबिम्बम् - जिनस्य तीर्थकृतश्चरमस्य भगवतो महावीरस्य बिम्बं प्रतिबिम्बं जिनबिम्बम् । कीदृक्- किमात्मकम् । विभाति शोभते । इति केनचिद्विहिते प्रश्ने । भवता तत्रभवताऽमलप्रतिभावता श्रीमता । सदश्मे सन् शोभनोऽश्मो ग्रावा पाषाण इति यावत् यस्मिंस्तस्मिंस्तथा । अकारान्तस्याऽप्यश्मशब्दस्य दर्शनात् । तुङ्गोदयाद्रिशिरसि · उदयस्याऽऽविर्भावस्याऽद्रिः पर्वत उदयाद्रिस्तस्य शिरः शिखरमुदयाद्रिशिरः, तुङ्गमुदयाद्रिशिरस्तुङ्गोदयाद्रिशिरस्तस्मिंस्तथा । "तुङ्गमुच्चमुन्नतमुद्धरम् । प्रांशूच्छ्रितमुदग्रं च " ६ | ६४ ॥ इत्यभिधानचिन्तामणिः | सुचारु - अत्यन्तरमणीयम् । बिम्बम् - मण्डलम् । "बिम्बोऽस्त्री मण्डलं त्रिषु" इत्यमरकोशः । इव • यथा । उपमितम् - तुलितम् । उपमालङ्कारः । उपमानोपमेयगतधर्माणां भेदे साधर्म्याभावे कथमुपमा ? सादृश्यस्य साधर्म्यप्रयोज्यत्वात् ययोः साधर्म्यं समानधर्माभिसम्बन्धस्तयोरेव सादृश्यं भवति, तत्रोपमानं सादृश्यनिरूपकमुपमेयन्तु भवत्याश्रयः, यथा चन्द्र इव मुखमित्यत्र चन्द्रनिरूपितसादृश्याश्रयत्वस्य मुखे प्रतीतिर्भवतीति नाऽऽशङ्कनीयम् बिम्बप्रतिबिम्बभावेनाऽभेदात्साधारणधर्मतोपचारादुपमासिद्धौ बाधकाभावात् । न च बिम्बप्रतिबिम्बभावात्साधर्म्यप्रतीत्युपपादनेऽपि वस्तुतस्तदभावात्कथमुपमालक्षणसमन्वय इति वाच्यम्, चमत्कारविशेषप्रयोजकसाधारणत्वाध्यवसायविषयधर्मत्वस्यैवोपमालक्षणत्वमित्यभिप्रायत्वात् ॥२९॥ - - - कादम्बके गिरिवरे जिनराजचैत्ये त्वत्स्थापिते भवजतापविनाशिशैत्ये । शृङ्गं विराजति सुवर्णमयाच्छकौम्भ मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ - अन्वयः कादम्बके, गिरिवरे, त्वत्स्थापिते, भवजतापविनाशिशैत्ये, जिनराजचैत्ये, सुवर्णमयाच्छकौम्भम्, शृङ्गम्, उच्चैस्तटम्, सुरगिरेः शातकौम्भम् (शृङ्गम् ) इव विराजति ||३०|| वृत्तिः कादम्बके - कदम्बकाख्यतीर्थे । गिरिवरे - पर्वतश्रेष्ठे, रैवतकाख्ये इति यावत् । त्वत्स्थापिते त्वया श्रीमता भवता स्थापितं निर्मापितं व्यवस्थापितमिति यावत् त्वत्स्थापितन्तस्मिंस्तथा । ५०

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130