Book Title: Nandanvan Kalpataru 2016 06 SrNo 36
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
भवजतापविनाशिशैत्ये - भवात् संसाराज्जातो भवजः स चाऽसौ तापः सन्तापो भवजतापस्तं विनाशयति तच्छीलं भवजतापविनाशि "अजातेः शीले" ५।१।१५४|| इति हैमसूत्रेण णिन्प्रत्ययः, तादृशं शैत्यं शीतलत्वं यस्मिंस्तस्मिंस्तथा। जिनराजचैत्ये - जिनराजस्य जिनेश्वरस्य चैत्यं मन्दिरं जिनराजचैत्यन्तस्मिंस्तथा । सुवर्ण मयाच्छकौम्भम् - सुवर्णस्य विकारः सुवर्णमयम्, तच्च तदच्छं निर्मलं कुम्भानां कलशानां समूहः कौम्भं यस्मिंस्तत्तथा । उच्चस्तटम् - उन्नततद्देशम् । शृङ्गम् - शिखरम् । “शृङ्गं तु शिखरं कूटम्" ४।९८|| इत्यभिधानचिन्तामणिः । सुरगिरेः सुराणां देवानां गिरिः पर्वतः सुरगिरिर्मेरुस्तस्य इत्यमरः । शातकौम्भम् - शतकुम्भे गिरौ भवं शातकुम्भम् सुवर्णम् तस्येदं तथा । "सुवर्णं पुनः । स्वर्णं हेमहिरण्य- हाटकवसून्यष्टापदं काञ्चनं कल्याणं कनकं महारजतरै-गाङ्गेय रुक्माण्यपि, जाम्बूनदं शातकुम्भम्" ४|१११॥ इत्यभिधान चिन्तामणिः । (शृङ्गम् - शिखरम्) इव - उत्प्रेक्षायाम् । “मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिव शब्दोऽपि तादृशः" इत्यभियुक्तोक्तेः विराजति - शोभते । उत्प्रेक्षालङ्कारः । __ "भवेत्सम्भावनोत्प्रेक्षा वस्तुहेतुफलात्मना ।
उक्तानुक्तास्पदं चाऽत्र सिद्धासिद्धास्पदे परे ॥" इति चन्द्रालोके तदीयलक्षणस्मरणात् विषयिनिष्ठधर्मसम्बन्धप्रयुक्तं विषयर्मिकं तादात्म्यसंसर्गेण विषयिविधेयकमाहा[सम्भावनमुत्प्रेक्षेति पर्य्यवसितमवसेयम् । तनिष्ठधर्मसम्बन्धप्रयुक्त माहार्यतत्सम्भावनमिति तु निष्कर्षः । “मुखं चन्द्रं मन्ये" इत्युत्प्रेक्षायां चन्द्रनिष्ठाऽऽह्लादकत्वादिधर्मसम्बन्धप्रयुक्तं मुख्ने चन्द्रसम्भावनमाहार्य्यमस्तीति लक्षणसमन्वयः । बाधाद्यभावदशायां जायमानायां मुखादिधर्मिक चन्द्रादिसम्भावनायामुत्प्रेक्षात्ववारणाय आहार्येति । एतेन "विरामसन्ध्यापरुषं पुरस्ताद्यथा रजः पार्थिवमुज्जिहीते । शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः" इत्यत्र रजोभरोद्गमनससैन्यं प्रत्युद्गन्तृधर्मसम्बन्धिप्रयुक्तायां भरते तत्सम्भावनायामपि नाऽतिव्याप्तिस्तस्या अनाहार्यत्वात् । “सम्भावनं यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये" । इति सम्भावनालङ्कारविषये "यदि शेषो भवेद्वक्ता कथिताः स्युर्गुणास्तव" इत्यादावतिव्याप्तिवारणाय प्रयुक्तान्तम् । “सर्वातिशायि-सौन्दर्यं शङ्के सत्यवतीमुखम् । येन सा तरलाक्षी सावित्री तरलीकृता" इत्यादावतिप्रसङ्गवारणाय तन्निष्ठेति सम्भाव्यमानवृत्तित्वं धर्मविशेषणम् तत्र सावित्रीतरलीकारकत्वं रूपस्य धर्मस्य मुखवृत्तित्वन्न तु सम्भाव्यमानवृत्तित्वमिति सङ्केपः ॥३०॥
रत्नत्रयं शुभवतो भवतश्चकास्ति
। लोकत्रये किमपि यत्सदृशं न चाऽस्ति । जगत्प्रभावमुपनीतमुनीश्वरत्वं ।
प्रख्यापयत्रिजगतः परमेश्वरत्वम् ॥३१॥ अन्वयः शुभवतः, भवतः, जगत्प्रभावम्, उपनीतमुनीश्वरत्वम्, त्रिजगतः, परमेश्वरत्वम्, प्रख्यापयत्, किमपि, रत्नत्रयम्, चकास्ति, यत् सदृशम्, लोकत्रये (अपि), न, च, अस्ति ॥३१॥
५१

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130